________________
.. अनन्तानुबन्धिनोऽनन्त-संसारवर्धकाः। उत्सूत्रभाषकाणां च - “पयमक्खरं च.एकंपीतिवचनानियमान्मिथ्यात्वं, मिथ्यात्वं च न कदाचिदपि मिथ्यात्वोदयेन विना भवतीति । यथा: समिथ्यात्वानामनन्ताप्रबन्धिप्रभावादनन्तो जायते संसार इति प्ररुप्यते तथोत्सूत्रभाषिणामन्यथा. वेति ?। ये उत्सूत्रभाषका अपि सन्तः स्वमतपोषणमात्रतत्परास्ते तथाविधं तीर्थं नापि द्विषन्ति । यथा मरीचिः पारिवाज्यप्रवर्तकोऽपि न प्रभोरादिनाथस्य शासनाय द्रुह्यति । केचित् गोशालाऽऽदिवदन्यथाप्ररुपकाः प्रवर्तकाश्च तीर्थाय द्रोहिणो भवन्ति, तेषु येऽन्त्यास्तेषां बोधेदौलभ्यं विशेषेण भवति । ततश्च संसारमनन्तमटन्तोऽपि बोध्युत्पादनसामग्रीमेव न ते आप्नुवन्तीति, एतादृशानाश्रित्योच्यते च 'ण हुलब्भा तारिसे . . दट्टुं 'ति । अदृष्टकल्याणकरत्वमेव तथाविधोत्सूत्रभाषकाणां ज्ञेयमिति ।
अथ यथाहि व्यवहार्यव्यवहारिणां सर्वेषामप्रियतया वधस्याऽऽदौ स्थूलप्राणवधविरमणं, तदनन्तरं च लौकिक-लोकोत्तरमार्गाऽनुगामिनामप्रियतया मृषावादस्य प्रतिभासात्तच्च स्थापितं । अथ सपौरजानपदानां सर्वव्यवहाराणां फलतया व्यापृतिहेतुतया मूलतया प्राणादिभ्योऽपि कथञ्चिदधिकतया धनस्य ग्राह्यतया तदपहारे च सकुटुम्बस्यापि विनाशस्य सम्भवाच्च धनस्याऽऽदेयताऽस्ति, तत एवं च परतीर्थिकैर्जनचित्तानुवृत्तये धर्म-मोक्षयोश्च पुरुषार्थस्य प्रख्यापिता, धनस्येत्थं लोकानां उपयोगितमत्वादन्यायतस्तदपहारस्याऽनिष्टत्वाच्च जानपदीमेव-वृत्तिमाश्रित्याऽदत्ताऽऽदानविरमणस्योपन्यासो नाऽयुक्तः।
अत एव चात्र परराज्यातिकमादेर्महाऽदत्तादानत्वेन वर्णितेऽपि प्रश्नव्याकरणाऽऽदौ सूत्रे 'उचियं मोत्तूण कल 'मित्यादि 'तेणाहडप्पओगे' इत्यादि चाऽतिचारतया देशभङ्गरुपेणाऽsख्यायते, जानपद्या कृत्यां हि तथाप्रकारस्यैव तस्य व्यवहारात्, प्राक्कनयोर्द्वयोरविशेषतयाऽऽल्यानं चक्रवादीनां रणसङ्ग्रामादेर्निन्दनात् , अस्य तृतीयस्य जानपदी वृत्तिमाश्रित्योपन्यासात् योग्यमेव द्वाभ्यां ताभ्यामानन्तर्यमिति ।
ननु यद्येवं परमण्डलाक्रमणस्याऽदत्ताऽऽदानरूपत्वं तदा कथं श्रीजम्बूद्वीपप्रज्ञप्त्याऽऽवश्यकाऽऽदिषु चक्रवादीनां परमण्डलाक्रमणादेः प्राशस्त्येन वर्णनं कृतमिति ? चेत् ।
· शृणु, प्राणातिपात-मृषावादौ हि पापादुदयमागच्छतो घोरं च पापमनुबन्धयतः, न च तो केनाऽपि प्रकारेण प्रशस्ती, परं परमण्डलाक्रमणेन परेषां नृपाणां पराजयाज्जायमानस्य धनाऽऽदिलाभस्यान्तरायक्षयोपशमजन्यत्वेन परिणामदारुणस्यापि पुण्यरुपतया पुण्यफलतया वाऽभिप्रेतत्वात् तथा तथा तत्र तत्र क्रियमाणं वर्णनं नृपाणामस्ति । ।
शास्त्रकृद्भिराक्षेपिण्यादिषु धर्मकथास्वपि देवर्द्धिवर्णनमित्याद्युक्त्वा कामभोग-परिग्रहरुपत्वेऽपि देवादीनां वर्णनमनुमतं । धर्मस्य साध्ये मोक्षफले सत्यपि यावद्भवस्थित्यपरिपाकादेन (स्तन्न)