________________
(७)
प्राणसङ्ख्यामनुसरन्ति, न दशप्राणवर पञ्चेन्द्रियविनाशेन सममे के न्द्रियादिदशप्राणविनाशनं, किन्तु प्राणसामर्थ्यानुसारेण प्राणविनाशजन्य आश्रवोऽभिमन्यते । प्राणानां सामर्थ्यं चैकेन्द्रियाणामनन्तानामपि यत्स्पर्शनेन्द्रिकायबलादिगतं सामर्थ्यं ततोऽनन्तगुणविशुद्धं क्रमशो द्वीन्द्रियादीनां तत एव च पचेन्द्रियवधादिभिर्नरकायुष आश्रवः ।
किश्च ऋषिइत्याकारकाणां यन्महावैरत्वं श्रीभगवत्यादिषु 'चेइयदव्वविणासे इसिघाए ' इत्यादिना दुर्लभबोधित्वं च प्रन्येषु यदुक्तं, तत्क्षयोपशमादिजन्यस्य जीवगुणसमुदायरूपभावप्राणस्य सामर्थ्यमपेक्ष्य ।
एवं च प्राणिप्राणरक्षाविषये ओघनिर्युक्त्यादिशास्त्रेषु प्रतिपादितावुत्सर्गापवादावपि सुखोन्नेयौ भविष्यतः । स्पष्टीभविष्यत्येतस्मादधिकारात् सचित्तानामप्यन्नानां भक्ष्यत्वं मांसादीनामभक्ष्यत्वं च कथमार्यैः कृतमित्यस्य तत्वमिति ।
अनादिकः क्रमः एष रूढितः स्थूलप्राणवघ विरमणाऽऽदिकोऽणुव्रतादिषु, परमेष विशेषः यदुतद्वाविंशतिमध्यमजिनतीर्थसाधूनां महाविदेहसाधूनां च महात्रतेषु चतुर्थे महाव्रते ' वहिद्धादाणाओ विरमण 'मित्येवं प्रत्याख्यानेन चतुर्महात्रतत्वं भवति, परं श्रावकाणां तु सर्वेष्वपि शासनेषु पंचैवाऽणुव्रतानि । तत एव ज्ञातधर्मकथादिषु श्रीनेमिजिनशासनादिगतानामपि सम्यक्त्वमूलानां द्वादशानां व्रतानामुक्तः स्वीकारः श्राद्धानां सङ्गच्छते इति ।
यद्यपि चाऽऽगमधुरन्धराः “जो देउवायपक्खंमि हेउओ आगमे य आगमिओ "त्ति धृत्वा प्रतीकं सम्यग्दर्शनादिभि, साध्या मोक्षाचा हेतुवादरुपाः, भव्यत्व - जीवत्वादयश्च साध्या न केनापि इति ते आगमिका इति व्याख्याय आगमिकेष्वर्थेषु युक्तीनामुपन्यासमेव निषेधयन्ति केचित् ।
केचिच्च
'आण गिज्झो अत्थ आणाए चैव सो कहेयव्वो । दिहंतिम दिहंता सिद्धंतविराहणा इहरे'
- स्युक्वा सर्वेषामर्थानामाज्ञाप्राह्यत्वमादौ व्यवस्थापयन्तु पश्चाच्च यत्राऽर्थसाधने दृष्टान्तशब्दोपलक्ष्याण्यनुमानादीनीतराणि मानानि स्युस्तत्र तान्यप्यवश्यं प्रयोक्तव्यान्येव ।
तथा च श्रद्धानुसारिणां जीवानामनयैवागमोक्तपदार्थानां श्रद्धानेऽपि तर्कानुसारिणामपि सिद्धान्तोक्तानां पदार्थानां श्रद्धानं सुकरं भवतीति व्याख्यानयन्तीति ।
द्वितीयपक्षमाश्रित्य युक्तिलेशोऽत्र दर्श्यते, अष्टादशसु पापस्थानेषु आश्रवस्थानेऽवतेषु चादावेव पठ्यते प्राणवषः, अतस्तत्सर्व- देशविरतिरुपेषु महात्रता- ऽणुत्रतेषु युक्तमेवादौ तस्य पठनं । किश्व-प्राणानां