________________
0000000}
पूज्यपादागमोद्धारकाचार्य-पट्ट - प्रतिष्ठित - शास्त्रदम्पर्यबोधक - वात्सल्य.सिंधु-पूज्यगच्छाधिपति-आचार्य श्रीमाणिक्यसागरसूरीश्वराणां
आ...शी...र्व...च...न...म्
* 卐 * 卐
विश्वजीवजीवनजीवातु- विशुद्धात्मकस्वरूपानुभूतिप्रत्यल - रत्नत्रयीसमाराधनाविविधप्रकारनिरुपका–ऽनादिभवाऽभ्यस्त भववासनाप्रभवकर्मजन्य - जनिमृतिसानुबंधतानि - रसनाऽमोघोपायप्रतिपादक - श्रीमजिनवरेन्द्रगदिताऽऽगमग्रन्थाभ्यासिनां विदितवेद्यतमानां सर्वेषां ज्ञातप्रायमेतत् यत्:
प्रबलाऽतिदुर्धर्षमोह भूपदुर्धर चमूनायकानां राग-द्वेष-मोहानां क्षयार्थमेव धर्मस्याराधनं श्रेयस्तमम्, परं विशुद्ध वर्माराधनमन्तरा चिरप्ररूढा तिप्रत्नतमानां संस्कार-रूपें - णानादिमतां रागविद्विषां फलेग्रहिर्विजयः न सुशकः, धर्मस्य विशुद्धत्वं चाऽशुभसंस्कारह्रासजन्यं, तदर्थं च प्रणिधानशुद्धिसमुत्पादक - विशिष्टश्रुतरत्नस्वाध्यायादिकमत्यावश्यकम्, विना विशिष्टस्वाध्यायप्रवृत्तिमशुभतम संस्काराणां शक्तिव्याघातो न भवतीत्यत एवोद्धुष्यतेsपि " णवि सज्झायसमं तवोकम्मं " |
एतादृशप्रकृष्टस्वाध्यायोपयोगि च चिरन्तनाचार्यप्रणीतं समर्थ प्रावचनि श्रुभक्त पूज्याचार्यश्रीहरिभद्रसूरिपादैर्विवृतं श्री पञ्चसूत्राख्यं हि श्रुतरत्नं आत्मशुद्धिप्रेप्सूनां श्रेयः संलक्ष्यवतां मुमुक्षूणां जीवनतुल्यं समस्ति ।
एतादृशस्य पूर्वधराप्ततमाचार्य भगवद् हृदय हिमवत्प्रभूतातिनिर्मलत राति सुगांगेय जलाघ्यवसायविशुद्धयापादकश्रीपञ्चसूत्राख्यश्रुतशिरोमणेः पूज्यागssमपारश्व - देवसूरतपागच्छसामाचारीसंरक्षणबद्ध कक्षागमजीवंत मूर्ति - आगमप्रौढव्याख्यातृ - प्रावचनिक मतल्लजाssगमवाचनाकारक-बहुश्रुतसूरिपुरंदर - ध्यानस्थस्वर्गतागमोद्धारक श्री आनन्दसागरसूरीशः बाल - मध्यम - प्रकृष्टधीमतां साधारण्येनाऽर्थबोधतात्पर्यगमकं विशिष्टमर्मस्पर्शी - हि सन्दृब्धम् ।
काबVEOLIM