________________
नियुक्ति-भाष्य-वरवृत्तियुतानि सम्यगू यः प्रापयत्प्रवचनानि विशोध्य यत्नात् । भव्योपकारकरसिकं श्रुतभक्तिभाजमानन्द-सागरगुरुं तमहं प्रवन्दे ॥६॥ यो वाचनां समददान्मुनिमण्डलाय, ज्ञानं प्रचारयितुमाप्त-जिनागमानाम् । सम्यग् जिनागमरहस्यविदां वरेण्यमानन्द-सागरगुरुं तमहं प्रवन्दे ॥७॥ एवं कृताऽन्य-शुभशासन-कृत्य-जातविख्यात-शारद-शशिप्रभ-शुभ्रकीर्तिम् । आचार्य-मौलिमुकुटं मुनिवृन्दवन्धमानन्द-सागरगुरुं प्रणमामि सूरिम् ॥८॥
PawrCCTDANCarroreverecances
कीदृशो धर्मः ? को वा प्ररुपयेत् ? । " जन्मान्तकजराऽऽकीर्णो,
निस्सारोऽशरणो भवः । तस्मादुद्धारकं धर्म,
मुनिः प्रकल्पमृद् वदेत् ॥” पू. आगमोद्धारकश्री रचित
"प्रकीर्ण पद्यावली" पद्य-१
PAN