________________
ASSAGENDANIROENSENC
पूज्यागमोद्धारकाचार्यश्रीआनन्दसागरसूरीश्वराणां
स्तुत्यष्टकम्
श्री - जैन- शासन-नभो - मिहिरायमाणं, सज्ज्ञान - संयम - शमादि-गुणाम्बुराशिम् । आप्तागमोद्धृतिकरं, कृत—भूप-बोधमानंद - सागरगुरुं प्रणमामि सूरिम् ॥१॥
आसीज्जनुः कपडवंज - पुरे यदीये, नाम्ना च यस्य यमुना जननी सुशीला । श्री मग्नलाल इति यज्जनकः प्रशांत, आनन्द - सागरगुरुं प्रणमामि सूरिम् ॥२॥ यो वैक्रमे मुनि-युग-क-मृगाङ्क (१९४७) वर्षे झव्हेर- - सागर - मुनीश्वर - पादपद्मे । आदत्त चारु चरणं शिववर्त्म धीरम्, आनन्द - सागरगुरुं प्रणमामि सूरिम् ||३|| प्राचीन - पुस्तक - समुद्धरणाय देव - चन्द्रादि-नाम-कलितः प्रथितः सुकोशः । यस्योपदेशमधिगम्य जनिं प्रपन्न - आनन्द - सागरगुरुं
तमहं वन्दे ॥४॥
प्राज
सदुपदेशमवाय यस्य
श्री आगमोदय समित्यभिधा सुसंस्था । सिद्धांत - वाचन - प्रकाशन - कारिका श्री आनन्द-सागरगुरुं
तमहं वन्दे ॥ ५ ॥