________________
किञ्च-अर्हता. भगवतां निक्षेपचतुष्टयमपि नाऽपूज्यमार्गान्वितं स्वीकार्यम् । तत एव तत्रं 'णामजिणा जिणणामे 'त्याधुच्यते, एतादृशाऽहत्पदाऽनुवृत्तेश्च सिद्धादिषु पदेषु भावसिद्धाऽऽदिपरिग्रहस्येष्टत्वेऽपि न ताविशेषणप्रयोगः, आर्हतानां सिद्धानामित्यादिव्याख्यानाद् भावसिद्धत्वादेलाभादिति ।
न च भगवतामहतां वीतराग-द्वेषत्वात् तदनुष्ठानस्यानुमोदने किं फलं ? इति वाच्यम् ! अनादिकालीनमिथ्यात्वाऽऽदिरोगदूषितानामसुमतां सद्गुणप्रशंसाबीजेनैव बोध्यादिफलेन फलयुक्तत्वभावात् । न च विहाय सद्गुणप्रशंसामन्यो धर्मकल्पप्ररोहादिफलो धर्मः, शेपाणामशेषाणां सुकृतानां तत्प्रभावात् तदन्वेव च भावादिति ।
ननु च भगवतामहदादीनामियता स्वप्नदर्शन-जन्माभिषेक-कल्याणकमहिम-महाप्रातिहार्यनिर्वाणमहप्रभृतिना महिम्ना किं प्रयोजनमिति चेत् ? शृणु, ! धर्मस्य तावदवश्यं द्विविध फलं लौकिक- । लोकोत्तरभेदभिन्नं भाव्यम् । अन्यच्च-न धर्मो धर्मिणमन्तरा, ततो धर्मिजनानां पूजाद्वारैव धर्मस्य पूजाप्रभावस्य दर्शनं स्यात् , अतोऽवश्यमहदादीनां धर्मरत्नरत्नाकराणां पूजाऽऽदीनि भाव्यानि धर्माsभिलाषिभिश्चाऽवश्यमादावेवानुमोदनीयानि । अत एव पञ्चपरमेष्ठिनमस्कारे जिन-वीतरागसर्वज्ञसर्वदीत्यादीनि पदानि न धृतानि, किन्तु अशोकाद्यष्ट-महाप्रातिहार्याऽऽदिपूजासूचकमर्हत्पदमेव स्थापितम् , स्थापितं च सिद्धपदा भिन्न प्राक् चाहत्पदम् इति । एवं चाऽभावितायामपि पर्षदि जीतेन भगवतो वीरस्य क्षणमहत्पदयोग्यपूजाया उपसेवनं शोभते ।। ___यद्यप्यर्हतां भगवतां साध्यफलं तु धर्मदेशनया तीर्थप्रवृत्तिरेव, परं प्राप्यफलमहन्नामकर्मणः पूजाऽतिशय-गणधरप्रव्रज्यादि । तच्च 'धम्मदेसणाइहि 'मित्यत्र निवद्धमादिशब्देन नियुक्तिकारैः, अत एवाऽऽगर्भात् शकस्तवादिभिर्यावनिर्वाणं पूज्यताऽहंतां भगवताम् । ननु ये यत्र क्षेत्रे यत्र च शासने उपकारितयाऽर्हन्तो भवन्ति, तेषामनुष्ठानस्याऽस्त्वनुमोदनम् , शेषाणां तेषां तदनुमोदनं किमर्थं ? येनोच्यते सर्वेषामर्हतामिति चेत् ? सत्यमुक्तं परमयुक्तम् ! यतो गुणिगुणानामनुमोदनस्य श्रेयस्करतया सर्वेषामेव तेषां तस्यानुमोदनं योग्यमेव ।।
अत एव प्रतिक्षेत्रमृषभादीनां जिनानां भिन्नत्वेऽपि णमो अरिहंताण-मित्यादिभिः पदैः पञ्चसु परमेष्ठिसु क्षेत्र-कालाद्यनाश्रितानामर्हदादीनां नमस्कारादि । शाश्वतजिनाद्या हि नहि केचित् क्षेत्रकालादिपु नियमिताः, एवं च नवपदमयश्रीसिद्धचक्रस्य सर्वकालीना सर्वक्षेत्रीया चाराधना सिध्यति ।
पडावश्यकव्याख्याने च स्पष्टतयोच्यते यदुत-वर्तमानचतुर्विंशतिकायाः स्तवमय एव चतुर्विशतिस्तव इति, कर्मभूमीविहायाऽन्यत्र स्थितानां सम्यग्दृशां देशविरतानां च ऋषभ-चन्द्राननादीनां क्षेत्र-कालानाश्रितानामर्हतां भगवतामाराध्यता, तथा सामान्येन जिनसिद्धादीनामाराधना पूज्यता चेति