________________
(८१) किन्तुः तदनेकभवयत्नलभ्यम् । अत एव च 'यः शुभकर्माऽऽसेवनभावितभावो भवेष्वनेकेवि'. ति भाष्यं
'तइयभवोसक्कइत्ताण 'मिति च नियुक्तिकाराः। .. 'अनेन भवनैर्गुण्य' मित्यादि यावत्
तत्तत्कल्याणयोगेन, कुर्वन् सत्त्वार्थमेव सः। तीर्थकृत्त्वमवाप्नोति, परं सत्त्वार्थसाधन' ॥
मित्यन्तं योगबिन्दुकाराः। 'वरवोहिलामओ सो' इति पञ्चवस्तुकाराः पञ्चाशककाराश्च । 'वरवोधित आरभ्य परार्थोद्यत एव ही 'त्यष्टककारा । 'सयंसवुद्धाण 'मिति प्रणिपातदण्डकः ।
जिननाम चाऽन्तःकोटीकोटीसागरोपमस्थितिकं बध्यते, तद्वांश्च यत्र यत्रोत्पद्यते तत्र तत्र तत्सद्गत्यादिस्थानापेक्षयोत्तमजात्यादिस्थानवानेव भवति । भगवतोऽर्वाक् तृतीयभवात्तु 'बज्झइ तं तु भगवओ तइयभवोसक्कइत्ताण 'मिति निकाचनाविषयं, सम्बन्धोऽपि तस्मात्ततीयस्माद्भवादारभ्य यावपूर्वकरणगुणस्थानं तावन्नैरन्तर्येण भवति । सर्वमिदमवधार्याऽर्हतां भगवतामनुष्ठानमित्युदितम् । महद्भवेऽपि गज-वृषभादिचर्तुदशस्वप्नदर्शनादि 'एए चउदस सुविणे' इत्यादि कल्पवचो मङ्गला. वसरे चतुःशरणकेऽपि पठितम् । गर्भपालनं, जन्मनि सेन्ट्रैर्देवगणैर्मेरुमूर्धनि स्नात्रकरणं, यावन्निर्वाणममत्र विधाय सर्वसुरासुरेश्वराणां नन्दीश्वरं गत्वा महोत्सवकरणं सर्वमिदमर्हतां भगवतामनुष्ठानमनुमोदनीयम् । * अत्र यावत्पदेनाऽधोलिखितगाथाकदम्बकं ज्ञेयम् , तथाहिः
" अनेन भवेनैर्गुण्य, सम्यग् वीक्ष्य महाऽऽशयः। . तभाभव्यत्वयोगेन, विचित्रं चितयत्यसौ ॥१॥ मोहाऽन्धकारगहने संसारे दुःखिता बत । सत्त्वाः परिभ्रमन्त्युच्चैः, सत्यस्मिन् धर्मतेजसि ॥२॥ अहमेतानतः कृच्छ्राद्, यथायोगं. कथंचन । अनेनोत्तारयामीति, वरवोधिसमन्वितः ॥३॥ करुणादिगुणोपेतः, परार्थव्यसनी सदा । - तथैव चेष्ठते धीमान् , वर्धमानमहोदयः ॥ ४ ॥ तत्तत्कल्याणयोगेन, कुर्वन् सत्त्वार्थमेव सः । . तीर्थकृत्त्वमवाप्नोति, परं सत्त्वार्थबाधनम् ॥ ५ ॥
-श्रीयोगबिंदु गा. २८१ त:२८८