________________
(८३) पूंज्याऽऽराध्योभयधर्मयुक्तानां परमेष्ठिनामाराधना पूज्यता च सार्वत्रिका सम्यग्दर्शनादीनां च गुणागुणरूपत्वादेवाराध्यतेति नवपद्याः शाश्वत्याराधनेति । ।
अन्यच्च-नह्यत्र जैने मते परमेश्वराणां दानदक्षत्वं, येन स्यात् प्रयत्नस्तत्प्रसत्त्यै, तथा चैकस्यापि जीवस्य परमपदे जायमाने दुग्धगौरिव परमेश्वरस्यैव परमपदहीनत्वम् , जैने तु शास आत्मस्वरूपरूपाणां ज्ञानादीनां परमेश्वराऽऽलम्बनजातध्यानादवाप्तिरुच्यते, पुण्यकारणीभूतसदवसायानामपि स्वतन्त्रता पुण्यकारणता (), सर्वज्ञोक्तशास्त्राणि तत्राऽवलम्बनीभवन्ति त्वनिवार्याणि अत एव स्वर्गापवर्गदानदक्षः परमेश्वरस्तदुपज्ञो धर्मः सति चैतस्मिन् वृत्ते सर्वेषामर्हतामनुष्ठास्यानुमोदनमात्मनां भवितुकामानां परमशुभाध्यवसायाऽऽलम्बनत्वाद्धितकरमेवेति योग्यमुक्तम् - 'अनुमोदयामि सर्वेषामहंतां भगवतामनुष्ठानमिति'।
न च वाच्यं भगवतामर्हतां वीतरागत्वात् यदि फलप्राप्तये तत्प्रसत्ते पेक्षा, आशातनाजन्याय संसारवृद्धावपि न तद्वेषापेक्षा, कर्तृणामेव तमालम्बनीकृत्य शुभाध्यववसायानामुत्पादे शुभफलस्येतरे चोत्पादे इतरफलस्य भावात् , अध्यवसायजन्यत्वात् पुण्य-पापानामिति सिद्धान्ते जायमाने कथमुच्यते 'तित्थयरा मे पसीयन्तु ' इत्यादीनि ? यतो वीतरागास्ते न प्रसीदन्ति, परं भक्तानां चेत् प्रसन्न मनस्कता तदुपदेशजनिता भवति, तदा निमित्ततामाश्रित्य तजनिता सोच्यते । एवमेव च स्वर्गाऽपवर धर्माऽऽदिदातृताऽपि भगवतां न्याय्यैव ।
ननु च यथा सद्गत्यादिनिमित्तत्वाद् भगवतां तत्तद्दातृत्वं कथ्यते, तथा दुर्गत्यादिनिमित्तत्वात्त दातृता किं न कथ्यते ? इति चेत् ? सत्यं ! सूर्यादीनां प्रकाशकरत्वाद् यथा दिनकरत्वादि कथ्यते अवटपातादि तु न तत्कृतमिति गीयते, तथा भगवतामपि शिवादिकारणतया शासनस्य प्रणयनादिन शिवादिदातृत्वं कथ्यते, परं दुष्टाध्यवसायादिजन्याया दुर्गतेस्तु प्रमादादिहेतुत्वात् , तत्र च परमात्मन सर्वथा सर्वदा निषेधकत्वेन प्रतिकूलत्वादशेनापि नास्त्येव कारणता दुर्गत्यादेः । तेन एकान्तहितकर एवार्हन्तो भगवन्त इति तदनुष्ठानस्याऽनुमोदनं भवितुकामानामावश्यकमेवेति कृतं प्रसङ्गेन ।
भगवतामर्हतामनुष्टानं तदैवाबध्नाति मूलं, यदा संसारसमुद्धारेण सिद्धत्वं साधनन्तकाल स्थितिकाऽऽत्मस्वरूपाऽवस्थानरूपं लभ्यं भवति । तदेव च निर्यामकाणां ध्रुवापि तारिका मार्गप्रवर्त नीयश्रीमदर्हदादीनां मार्गप्रणयनादिमूलकारणं भवति, तत आह-सव्वेसिं सिद्धाणं सिद्धभावं 'ति
सर्वेषां सिद्धानां भगवतां सिद्धत्वमनुमोदयामीति । सिद्धभावश्च संक्षेपेण तु . . 'असरीराजीवघणा उवउत्ता दसणे यणाणे य। सागारमणागारं सिद्धाणं लक्खणं एय' मित्यादि सविस्तरमावश्यकनियुक्तिप्रतिपादितमेवावतार्यमिति ।