SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ (७४) जमहिगरण "ति चतुःशरणवचनात् " यच्च दुश्चरितं किश्चिदिहाऽन्यत्र च मे भवे" युपमित्युक्तेर्भवान्तरकृतानां वेदितविपाकानामप्यशुभरूपत्वाद् गीत्वे न काचिद् बाधा । ___ तत्त्वतस्तु ' सवाऽवि हु पयजा णियमा जम्मंतरकयाण '-मित्यादिवचनात् भवाऽन्तरगतमपि पापं गाँ-तप-संयमादिभिःछेधमेव, परं प्रायश्चित्तविशेषाणां विवेकाऽऽदीनां प्रवृत्तिरैहभविक एव प्रायश्चित्ते इति विवेकः, अन्यथा गोशालकमख्याणां जन्माऽन्तरकृतमहापाप्मनां प्रवजितत्त्वेऽपि तत्संसर्गे पूर्वभवीयतन्महापापस्याऽनुमतिदोषाऽऽपत्तिरिति । चतुर्णां शरणमुपगतो 'गर्हे दुष्कृत ' मितिपूर्वोक्तोपक्रमसूत्रेण योज्यमिति । ईर्यापथिक्यादिषु प्रतिक्रमणेषु 'तस्स उत्तरीकरणेण' मिति सूत्रेणोत्तरीकरणवदत्रोत्तरीकरणार्थमाह-'गरहिअमेयं दुक्कडमेयं उज्ज्ञियव्चमेयं ति । गर्हाया निष्ठाकालं दर्शयन्नुत्तरकरणमाह-'गर्हितमेतदिति । लोकोत्तराऽऽप्ताऽहंदादिषु यद् इति तथाऽऽचरणादि तत् सर्वं गर्हितं मया, न चैषा द्रव्यगहेंत्याह'दुष्कृतमेतदिति । सर्वस्यैतस्य पापरूपतां ज्ञात्वैव सर्वमेतद् गर्हितम् । तथा च नैषा द्रव्यगर्हा, किन्तु भावगर्हेति । ___केदारमृत्स्नाखण्डघातमारितबलीवर्देन विप्रेण महाजनस्य समक्षं स बधो गर्हितः अभ्युपगतश्च दुष्कृततया, परं तस्मिन्न क्रोधानुबन्धं जहौ तद्वन्नेदमित्याह-उज्झिअमेअंति, कृतस्याऽनुबन्धव्यवच्छेदेन घ्युत्सर्जनं कृतमित्यर्थः। ' सर्वेऽप्यथास्तिक्यवादिनः पापस्य जुगुप्सायामेवामनन्ति श्रेयः परं पापस्य बोध एव न सर्वेषामेषां, तेन स्व-स्वशास्त्रेषु कल्पितानां पापानां परम्परामुद्भाव्य कल्पितमेव, प्रत्युताऽऽमनो दुर्गतिपातकारणमेव स्यात्, कर्तुस्तादृशं निवारणोपायं निर्दिशन्ति, स्वल्पा एव च जीवा यथार्थमास्तिक्यमार्गमागता हिंसादीनां यथास्थितानां पापानां पापतया श्रद्धानमधिश्रयन्ति । अत एव जोवादीनां तत्त्वानां यथार्थतया श्रद्धानस्य सम्यक्त्वगुणाऽऽवहत्ववत् पापस्यापि यथार्थस्य तत्त्वतया श्रद्धानं सम्यक्त्वाssवहं गीयते। किञ्च पापं हि कर्म, कर्म चाऽऽत्मपरिणामानामधमत्वेनाप्यङ्गीकरोति, आत्मनां ज्ञान एव च तेषामघमा दशा, तदुत्पन्नं पापं च यथार्थतया ज्ञायते, तादृशं ज्ञानमतीन्द्रियार्थदर्शिनामेव । ततो यथावस्थितं पापस्य ज्ञानमेव नाऽतीन्द्रियाऽर्थदर्शिनं विना भवति । परेषां तु तद्वाक्यामृतश्रवणेनैवेति सर्वमेतन्मनसिकृत्याह-' विज्ञातमेतन्मया कल्याणमित्रगुरुभगवद्वचनादिति । शास्त्रेषु हि 'सवणे णाणे य विण्णाणे 'त्ति क्रमात् 'सुच्चा जाणइ कल्लाण 'मित्याांच
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy