________________
(७३) . । न हि कश्चिदप्यङ्गी व्यतिरिच्य योगत्रयीमाशणोति कर्म बध्नाति वा पापम्, तत एव भगवता सिद्धानां भवाऽवतारस्याऽभावः, तेषां योगाऽभावादाश्रव-बन्ध-वेदनानामभावः ।. पापस्य ह्याश्रवोsशुभयोगादिह जायते, 'अशुभः पापस्ये ' ति (श्री तत्त्वार्थ सूत्र अ. ६ सू. १०.) वचनात् । ततोऽनुक्तमपि प्रकरणात् मनआदीनामशुभत्वं ग्राह्यम् ।
तथा चाशुभेन मनसा वचसा कायेन च यत्पापं पापानुवन्धीत्यादि ज्ञेयम् ।
यथा चान्यतीर्थीयाः अव्रतादीनामाश्रवतां नाऽभ्युपगच्छन्ति, तथा केवलं कृतं स्मरन्ति पापं, 'कृतकर्मक्षयो नास्ती ' त्याद्युक्तेः, न तथा जैनाः, किन्तु ते 'योग-कृत-कारिते! त्यादिवचनात् त्रिविधयोगवत् करणान्यपि त्रीणि कृताऽऽदीनि पापहेतुषु अभ्युपगच्छन्तीत्याह 'कृतं वा कारितं वा अनुमोदितं वे 'ति।
पापबन्धप्रमाणं च न मनोयोगादिवैषम्येण, किन्तु कृताऽऽदिषु यत्राऽपि सङ्कल्पस्याऽशुभस्य तीव्रता, तत्र तीव्रः पापानुवन्धः । _अतः सङ्कल्पितहिंसस्य तन्दुलीयकाऽऽदेः सप्तमश्वभ्रे पातः, कुशलानुबन्धकर्मकारिणश्च जीवा घोर-रणसभामाऽऽदिषु विषयेषु च प्रसक्ता अपि शर्करामक्षिकावलब्धास्वादा अप्युदयनवत् अपवर्ग साधयितुं समर्था भवन्तीति । ____योगाः करणानि च पापमाशृण्वन्ति, परं तस्य प्रातिकूल्येन ज्ञाननादिरूपेण वेदनं बद्धस्यैव सतो भवति, बन्धश्च कर्मगामाश्रुतानामपि अनभिव्यक्ताऽप्रोति-परपर्यायद्वेषरूपाभ्यां-क्रोध-मानाभ्यां तथाभूतप्रीति-परपर्यायरागरूपाभ्यां (माया-लोभाभ्यां) मोहाऽपरपर्यायस्य मिथ्यात्वस्य साहाय्येनैव बन्धोऽनुबन्धिता चेत्याह-'रागेण वा दोसेण वा मोहेण वे 'ति । __ क्रमेणैतेऽल्पाऽल्पव्याप्तिकाः दुःखोच्छेद्याश्च पश्चानुपूर्येति ।
तदेवं विषयस्वरूपं कारणं चोक्त्वाथाऽपरमाह । 'इत्थ वा जम्मे जम्मंतरेसु वेति ।
अत्र चात्र वा जन्मनीत्यनेनैतस्मिन् भवे आबाल्यावदाचरितं तं गर्हते. पश्चाच्च जन्मान्तरीयाणि दुष्कृतान्यपि 'जन्मान्तरेषु वे ' त्यनेन गर्हते ।
न च जन्माऽन्तरकृतानां दुष्कृतानां गर्हणमयोग्यमेव, यतः कानिचित्तु दुष्कृतानि तज्जन्यकर्मविपाकपरिभोग-निर्जराभ्यां नामशेषाणि जातानि, नहि श्रेणिकभवे कृतस्य प्राणिवधस्य निकाचितनरकगतिहेतोरप्यंशलेशः पदमनाभभवे भवेदिति वाच्यम् । " इहभवियमण्णभवियं मिच्छत्तपवत्त
१. आश्रवप्राप्तानामित्यर्थः ।