________________
(७२) गर्दाहेतुमाह-'पापं पापानुवन्धी' ति । हिंसाऽऽदीनां गण्यमानानामष्टादशानां पापस्थानानामन्यतमत् पापं पापस्थानमित्यर्थः । . हिंसाऽऽदीनि पापस्थानान्यपि अप्रमत्तानामनारम्भकत्वादेव पापस्थानाऽनुबन्धकानि न भवन्ति, अप्रमत्तानां सत्यप्यारम्भेऽङ्गिनां पापबन्धस्याऽभावादिति पुनराह 'पापानुवन्धी' ति । न प्रशस्तक्रोधादिवत् स्वरूपेणैव पापं, किन्तु प्रमत्तहिंसादिवत् स्वरूपेणानुवन्धेन च यत् पापं तत् वितथमित्यादि।
जैनं हि शासनं हिंसितव्यो न कोऽपीत्यादिवदनशीलमिति न तत्र सूक्ष्मस्याऽपि पापस्याऽस्त्यनुज्ञेत्युक्तं-' सूक्ष्मं वा वादरं वेति ।
एवं च 'जीवो जीवस्य जीवन' मित्याद्युक्त्वा यदन्यशासनेषु हिंसाद्यनुज्ञानं क्रियते, तत् नाऽत्र शासने, अत्र तु शासने प्रशस्तानामपि पापानां प्रतिक्रमणीयता ।
अत एव जिनार्चाऽर्थस्नानादिजातस्याऽसंयमस्याऽर्चाजन्येन शुभेन शोधनीयतोक्का । तथा च । पूजाऽऽदिपु स्वरूपतोऽपपापस्य भावेऽपि कालाऽन्तराऽवेद्यत्वादेकान्तनिर्जरारूपत्वम् । तत एव च त्रिविध-त्रिविवविरतानामपि सा उपदेशविषयो भवति, धर्मस्य च कपच्छेदतापैः परीक्षायां पापानां सर्वेषां सर्वथैव प्रतिपेधः कषतया गीयते, धर्मश्च जैनस्त्रिभिः कप-च्छेद-तापैः शुद्ध एवेति । तत्र सर्वमपि पापं निन्द्यमेव । ततः सुष्ठ्वेवोक्तं- ' गर्दै सूक्ष्म वा बादरं वे 'ति ।
___ पापं च बद्धमेव, ज्ञाननादीनां पापप्रकृतीनामबद्धत्वाभावात् । बन्धश्चाऽऽश्रुतानां कर्मणामेव, नाऽनर्जीऽऽश्रुतानि बध्यन्ते कर्माणि, आश्रवश्च काय-बाङ्-मानस-कर्मैव 'मनोवाकायकर्मयोगः; सं आश्रव' (श्रीतत्त्वार्थसूत्र अ. ६ सू. ८-९) इति वचनात् ।
योगानां प्राप्तिर्यद्यपि काय-वाङ्-मानसक्रमेण, पर्याप्तीनां तथाक्रमत्वात् , परं यथाक्रमं गुर्वाssश्रवत्वाद्योगानां काय-बाङ्-मनःक्रमेण । अत एव कर्मबन्धेवेकेन्द्रियाऽऽदिभेदेनाऽपि कर्मबन्धस्थित्यादिनां भेद आमतः । अत्रापि तत्क्रममाश्रित्याह-'मनसा वाचा कायेने ' ति ।
१. अत्र "स्नानादी जातस्येति व्युत्पत्तिरत्र ज्ञेया, न तु स्नानादिना जातस्येति व्युत्पत्तिः । स्नानादेरसंयमस्वरूपत्वादेव जातपदवंयर्यप्रसङ्गात् , यथा विधिकरणीयस्नानादौ अज्ञानाऽनाभोगादिना असंयमस्योत्पत्तिसंभवादन "जात" पदमुपन्यस्तं ।।
२. स्वरूपता-अर्थात् यथार्थदृष्ट्या न पापत्वम् , इत्येतद्धि सम्यक् संप्रचार्य मनसि जिनपूजादौ द्रव्यस्तवस्य किमित्पापमयत्यमप्पु प्यतेऽल्पजर्मूढतमैरिति ।
३. आश्रयेणागतानामित्यर्थः । ४. आश्रयेण अनागतानि इति ।