________________
(७१)
एवं लोकोत्तरे-तराऽऽसजनेष्वपराधक्षामणं कृत्वा तृतीयं सामान्यविभागमपराधक्षामणायाह'ओहेण वा जीवेसु मग्गटिएमु अमग्गटिएसु मग्गसाहणेसु अमग्गसाहणेसुत्ति ।
यद्यपि मार्गशब्देन सम्यग्ज्ञानदर्शनचारित्रात्मको व्यवहारः शास्त्रे गृह्यते, परमत्र 'ओघेन वा जीवे 'वितिवचनात् लौकिकव्यवहारमार्गो रोचनीयो राजाऽमात्यादिकः, अतो मार्गस्थिता राजाऽमात्यादिकाः प्रजापालनमार्गस्थाः, अमार्गस्थिताश्च शिल्प-कर्म-क्रय-विक्रयाऽऽदिकारिणो राजकुलव्यवहाराद् बहिर्गताः, तवयव्यतिरिक्तान् जनानाश्रित्याऽऽह-" मार्गसाधनेष्वि "ति।।
राजकुलाऽऽश्रितेषु चतुरङ्गसैन्यादिसंश्रितेषु, अमार्गसाधनेषु च शिल्पकर्माद्युपष्टम्भकजनेषु चेति, न चैतच्चतुष्टयव्यतिरिक्त ओघजीवसमूहो यो गर्दाविषयः स्यादिति ।
. यद्वा-नैतच्चतुष्टयव्यतिरिक्तो जीववर्ग एव नास्तीति, आटव्यादयोऽपि सन्ति, अपराधस्तु तेषामपि क्षम्य एव, परं ते व्यवहाराविषयाः इति न गृहीताः । प्रोक्तचतुष्टयविषये किमित्याह-'जं किंचि वितहमायरियं 'ति । अत्र यद्यपि 'जण्ण 'मित्युपक्रम एव यच्छब्देनोपक्रान्तं तथाप्यत्र यत् यत्किञ्चिदित्युच्यते, तत् यत्किञ्चिदित्यस्याऽखण्डस्य किञ्चिदर्थे सम्भवात् । यद्वा-'जं ण 'मित्यत्र यच्छन्दोऽव्ययं, सप्तम्यन्तं च तत्, ततो ये वर्हदायेषु पूज्याराध्यादिष्विति योजयित्वा व्याख्येयम् । तस्स मिच्छामि दुक्कड 'मिति तु समानमुभयत्र ।
किं कृतस्य गर्हेत्याह-'यत्किश्चिद् वितथमाचीर्णमिति'।
लोकोत्तरेषु अहंदादिष्वाप्तेषु, लौकिकेषु मात्रादिषु, ओधेन मार्गस्थितादिषु च यद्यत् तेषां भूमिकामाश्रित्याचरणीयं तत् नाचीर्ण विपरीतं वाऽऽचीर्णं, तस्य वितयत्वमवबुध्याधुना तत् सर्व गर्दै इति सम्बन्धः ।
कीदृशं वितथमित्याह-' अनाचरणीय' मिति, यतो वितथमपि । 'उत्पद्यते हि साऽवस्था देशकालामयान् प्रति । यस्यां कार्यमकायं स्यात्, कर्म कार्य च वर्जये 'दितिवचनात् ।
'नैकान्तात् कल्पते कल्प्य' मित्यादिवचनादप्याऽऽचरणोयतामापद्यते, न च तत्कार्य प्रतिक्रम्यमित्युक्तमनाचरणीयमिति । आचरणाया अयोग्यं यत् , तथा च अर्शादीनां छेदे आचार्यादीनां पादस्पर्शे च जातस्यापराधस्य क्षामणौचित्येऽपि न तच्छेदनं स्पर्शो वा निन्धः, आचरणौयत्वादेव हेतोरिति ।
क्षिप्त-चिंताद्यवस्थायामनाचरणीयस्यापि बन्धादेरेष्टव्यत्वादाह-'अनेष्टव्य ' इति । य माचारस्तत्तद्विषये विधातुं कथमपीच्छायोग्यो न भवेत् तद्वितथमाचीर्ण गर्ने इति तत्त्वम् ।
१०