________________
(७०) .. स्वजनाऽऽदिपक्षपातवर्जिततया निर्वाणमार्गसाधकसमुदायसंयमसहायकराश्च . ग्राह्या अन साधवः।
यद्यपि साध्वीवर्ग उपलक्षणव्याख्यानेनाऽऽचारप्ररूपणादिषुः गृह्यते, परमपराधक्षामणाय महाप्रवृत्तो भव्यः क्षामणाय ता अपि स्वतन्त्रतयोचिरे, पाक्षिकाऽऽदिषु सकलसङ्घक्षामणा क्रियत एव च । अन्यच्च नेदं नग्नाटीयं, तत्र साध्वीवर्गस्य प्रवृत्तेरेवाभावादिति ज्ञेयम् । न केवलसेत एवाऽईदादयः पूश्या आराध्याश्चेति, परान् तथाविधान् दर्शयन्नाह
___ 'अण्णेसु वा पूयणिज्जेसु माणणिज्जेसु वे 'ति । अहंदाद्यतिरिक्ताश्च सामान्येन धर्माः चार्यादयो ग्राह्याः यतः प्रतिक्रमणारम्भे 'भगवान' ति शब्देन गृह्यन्ते, अत एव धर्माचार्याः पाक तीर्थकृतां चैत्यवन्दनेन वन्दितत्वात्, परमेष्ठिपदगता आचार्याऽऽदयश्च ‘आचार्यह' मित्यादिना गृहीता एवेति ।
यद्वा-अत्राऽऽम्नायाचार्यादीन् अन्येष्वित्यादिना गृह्णन्तु । श्रमणोपासकास्तु वृद्धश्रमणो पासकादीन् पूज्याऽऽराध्याऽपरपर्यायमाननीय-पूजनीयान् गृह्णीयुः, गुणाधिकानां पूज्याऽऽराध्यत्वात् । अत एव चक्रवर्तिना भरतेनाराद्धाः श्रावकाः, रक्षितकुमारेण च न ढड्ढरश्रावकाय प्रणामादि कृतं, तेनाऽभावितावस्थः श्रावकस्तोसलिपुत्राचार्यमा॑पित इति । . यद्यप्यत्र सम्यग्दर्शनाऽऽदीनां ग्रहणं योग्यं, परं ते गुणरूपा इत्याराध्या, मूर्ती नेति पुज्या न, ततश्च निन्दायां तदतिक्रमस्य विषयो, न गर्हायामिति सम्भाव्यते ।
एवं लोकोत्तरानाप्तानभिधाय लौकिकान् आप्तान वितथाऽऽचरणादिविषयभूतानाह
'माईसु वा पिईसु वा वंधूसु वा उवयारीसु वे 'ति । ... यथैव लोकोत्तरा आप्ता अभिगमन-वन्दन-नमन-बहुमानाऽऽदिना आराध्यास्तथैव लौकिका अप्याप्ता एते त्रिसन्ध्यनमनक्रियादिनाऽऽराध्या एव ।।
.. अत एवाऽऽद्यश्चक्री ननामाऽम्बां मरुदेवां, वासुदेवोऽन्त्यश्च निजजननी देवकी, चतुर्बुद्धिनिधानोऽभयश्च स्वपितरं श्रेणिकराजं नमश्चक्रे इति श्रुतैतिचं, श्रीस्थानाङ्गसूत्रे च भर्तुर्धमोपदेश: वमाता-पित्रोदुष्प्रतीकारता अपि सविस्तरं वर्णिता दृश्यते । 'दुष्पतिकारौ मातापितराविति श्री उमास्वातिवाचका अप्यूचिरे । मात्रादिसम्बन्थ्यौचित्यं धर्मोपदेशमालातो ज्ञातव्यम् । तदतिक्रमण योऽपराधो जातस्तस्य गर्दाऽत्र विधीयते, पूर्वानुपूर्या उपकारमहत्ता, तत एव च क्रमो मात्रादिकः । .. यद्यपि माता पित्रधीना, परं गर्भधारणादिभिर्महोपकारिणी मातैव । अत एवोच्यते " पितृपात. तु शतं माता गौरवादतिरिच्यते " इति ।