________________
- किश्च-कालस्याऽनादित्वात् अतीता अनन्ता, अनन्तत्वाच्चास्यानंन्ता एण्यन्तोऽर्हन्तः, केवलं जैनमेव शासनमर्हदादिस्थानकानां परोपकारप्राधान्येनाऽऽराधनादाऽऽर्हन्त्यमुपाय॑ते इत्युपदिश्यों देवत्वमप्याप्यं सोपायमिति च निवेदयति, नैकेश्वरा जैना यतः इति । ...
- अत्र च यद्यपि ' अरहंता-अरिहंता-अरुहंते 'ति पाठा दृश्यन्ते, परं ते सर्वे 'उच्चाहती त्यनेनार्हन्छन्दादेव निष्पन्ना इति ।
यद्यपि राग-द्वेषाधरीणां नामनात् इन्द्रियविषयादीनामरीणां घातात् सर्वजीवाऽरिभूतकर्माष्टकहननात् वन्दन-पूजन-सिद्रिगतिभ्योऽहत्वात् अर्हन्त इति निरुच्यते, परमहंधातोः पूजार्थत्वात् देवाऽसुरमनुजेभ्योऽशोकायष्टप्रातिहार्यादिपूजाया अर्हत्वादहन्त इति वक्तुं योग्यम् । - यद्यपि 'अगिलाए धम्मदेसणाईहिं 'ति नियुक्तिवाक्यं धर्मदेशनाफलत्वमर्हन्नाम्नः कथयति, तथापि तत्रस्थ आदिशब्दः पूजावाचक इति प्रातिहार्याऽऽदिपूजाया अर्हलमाईन्त्यमिति नाऽयोग्यम् ।
अत एव च श्रमणो भगवान् महावीरः तीर्थप्रवृत्तिशून्यमप्याद्यसमवसरणमलञ्चकार, तत्पूजाया जीतत्वादिति अर्हन्नामकर्मोदयाद्ह्याईन्त्यं, तच्च प्रत्यवसर्पिण्युत्सर्पिणि चतुर्विशतेरेव जीवानां, चतुर्दशमहास्वप्नसूचितावतारादिमन्तस्ते । - विनार्हनामकर्मोदयं रागद्वेषादिनामनास्तु सामान्यकेवलिनोऽपि। तेच 'केवलिणो परमोही 'तिवचनेन साधुपद एव, केवलिनस्तु प्रत्यवसर्पिण्युत्सर्पिणि असङ्ख्या एव । ततः स्थितमिदं यदुतअष्टमहापातिहार्यपूजायुता अर्हन्तस्तेषु ।
किञ्च-कर्मप्रकृतिषु जिननामकर्म, तच्च लोकानुभावात् (तृतीये) भवे बध्यते, तत्प्रभावाच्च च्यवनकल्याणकादय आर्हन्त्यनिबन्धना भावा सर्वेऽपि लोकानुभावादेव जायन्ते । अत एव चास्य निक्षेपचतुष्टयं तदुदयवज्जीवसमाश्रितं 'णामजिणा जिणाणामे 'त्यादिना गीयते ।
. तत्त्वतो नाऽत्र निक्षेपेण व्यवच्छेद्य-व्यवच्छेदकभावः, सिद्धपदादिषु नामसिद्धादीनां व्यवच्छेदेन भावसिद्धादयो गृह्यन्ते, तच्चाऽऽद्यस्य पदस्याऽऽर्हतानामितिरूपं विधाय आर्हतानां सिद्धानां यावदाहतानां साधूनामितिकृत्वा प्रतिपदमार्हतपदस्यानुवृत्तिं विधाय कार्यमिति, न तत्र लोकानुभावकं कर्म भावपदस्य वा न्यूनता गणनीयेति । । सिद्धाश्चात्र 'सिझंती 'त्यादिलक्षणाः 'सिद्धाणं बुद्धाण 'मित्यादिलक्षणा 'असरीरा जीवघणे 'त्यादिलक्षणा वा सिद्धानन्तज्ञानादिचतुष्टया ग्राह्याः। आचार्याश्च सिद्धयजिनार्पितशासनस्वामित्वाः पञ्चाऽऽचारप्रवर्तका, नियमपूर्वकद्वादशाङ्गाध्यापका उपाध्यायाः। . ...: