________________
(६८)
किञ्च - क्षायिकेषु शुद्धस्वरूपेषु भावेषु निर्दिश्यमानेषु प्राक् तावत् केवलज्ञानमेव ज्ञानशब्देना - ऽऽदिश्यते, तथा च ज्ञानादिक्षायिकभावयुक्तेन पुरुषोत्तमेन प्रज्ञप्तो धर्म इति पर्यवसितम् ।
' जावज्जीवं भगवन्तो सरण 'मिति त्रिष्वनुवृत्तमन्यत्र वचनव्यत्ययात्त्यज्यते वाक्यं, तत एव .' जावज्जीवं मे भगवं सरण 'मित्युच्यते । धर्मश्च दुर्गतिवारण-सद्गतिधारणफल अहिंसाऽऽदिभेदः संवर-निर्जर!रूपः सम्यग्दर्शनाऽऽदिमयोऽत्र केवलिप्रज्ञप्ततया ग्राह्यः । एवं हितोपदेशमयः सर्वज्ञक्लृप्तः पूर्वापरार्थ विरोधरहितो मुमुक्षुजनपरिगृहीतो धर्मोऽवश्यं शरणीकर्तुमर्ह इति तदर्थमाह- 'सरण' मिति ।
एतावता ' जावज्जीवं मे भगवन्तो ' इत्यादिना ' मे भगवं सरण 'मित्यन्तेन ग्रन्येनाऽर्हत्सिद्ध-साधु-धर्माणां अनन्यसाधारणया भक्त्या सेवनार्थं शरणं स्वीकृतं, परं जैने हि शासने गुणानां पूज्याऽऽराध्यत्वं गुणानां चाऽऽराध्यत्वं मुख्यया वृत्या सम्यग्दर्शनस्य शुद्धि-बुद्धि- पराकाष्ठाऽवस्थित्यर्थं क्रियते, परं पर्युपासना तु सावयत्यागाऽनवद्यासेवनाभ्यां क्रियते । भगवता श्रमणेन महावीरेण स्वपर्युपासनामार्गः पुष्पचूलायैष एवाऽऽदिष्टः, अतोऽयमपि भव्यः प्रतिपन्नचतुःशरणः सावयं गर्हणाऽथं 'तावदाह - ' सरणमुत्रगओ' य एएसिं गरिहामि दुक्कड 'मिति ।
गर्हाप्रवृत्तश्चाऽयं निर्मञ्चबोधः, ( धर्म लिङ्गेषु ' पापजुगुप्साऽथ निर्मलो बोध ' इत्युक्तेः निर्मलबोधयुक्तत्वाच्च) गर्हायास्त्रिधा विभागं करोति - आद्यं लोकोत्तराऽऽराध्यविषयं द्वितीयं लौकिकाऽऽराध्यविषयं तृतीयं च सामान्यविषयम् ।
iss विभागे तावदाह
“ जण्णं अरिहंतेस्रु वा सिद्धेसु वा आयरिएंस वा उवज्झाएसु वा साहूस वा साहुणीसु वा अण्णे वा धम्मट्ठाणे माणणिज्जेसु पूयणिज्जेसु "त्ति ।
अत्र यदित्यस्याग्रे वक्ष्यमाणेन 'जं किंचि वितहमायरिय 'मित्यादिना ग्रन्थेन सह सम्बन्धः । परत्र स्थितस्य यत्किञ्चिच्छन्दस्य सामान्यं किञ्चिदित्यर्थस्तेन नात्र यच्छदप्रयोगस्य चिन्त्यता यदित्यनेन सामान्यं निर्दिश्य सर्वं दुष्कृतमाह[-- ततश्च न सूक्ष्म - बादराऽऽदिदोषः । णमिति वाक्यालङ्कारे । तथा चास्य तादृक् प्रत्नत्वं यद् यत्र काले वाक्यालङ्काराय लोके णंकारस्य प्रयोगो जायमान आसीत् । किञ्च - नियमोऽयं शास्त्रीयो यदुत निन्दा आत्मसाक्षिकी स्यात्, परं गर्हा तु परसाक्षिक्येव 'परसक्खिया हु गरहे 'ति वचनात् । ततोऽत्र 'णं' कारेण वाक्यालङ्कारार्थेन ज्ञापयति-यत् परोक्षानप्यर्हदादीनात्मना साक्षात्कृत्य तद्विषयकस्य वितथाचरणादे: ' करोमि गर्हा 'मिति । अतः एव. · तथाप्रयोजनाभावात् प्राक्तनेषु वाक्येषु न क्वाऽपि प्रयोगो णंकारस्येति ।
*M
श्चरिहंतेसु'त्ति । यद्यपि 'गुरावेकथे 'त्यनेनैकस्मिन्नप्यर्हति स्यादेव बहुवचनं, परमत्र प्रागेव ' जे ए माइक्खंती 'त्यादिनाऽऽविष्कृतमेवार्हतां बहुत्वमस्ति ।