________________
(६७) केंवलिंप्रज्ञप्त एव धर्म 'उपदिशति । तत्र सर्वकर्मवनस्य दाहं सकामरूपमपेक्ष्य सुष्ठूक्तं-" कर्मवनविभावसु' रिति ।
__ ये विशेषगुणोच्छेदरूपां वदन्ति मुक्ति, ये च नैराम्यवादेनेशते शून्यरूपां तां सत्त्वनिवृत्तेः स्नेहनिवृत्तिरिति वावदूकाः सुगतास्तेऽपि स्वधर्मं कर्मवनविभावसुतयाऽऽमनन्त्येवेति केलिप्रज्ञप्तस्य 'अवितथस्यापि विशेषणायाह " साधकः सिद्धिभावस्येति ।
___ ननु जैनैरपि कृत्स्नकर्मविप्रयोगो मोक्ष' इति 'आत्यन्तिको वियोगस्तु देहादेमोक्ष इष्यते " इत्यादिभिर्वचोभिः कर्मनाशमात्रस्य मोक्षस्य सम्मतत्वात् कर्मवनविभावसुरित्येतावदस्तु, न पृथक् साधकः सिद्धिभावस्येति विशिष्टतेति चेत् ? शृणु
. आत्मनः स्वस्वरूपेऽवस्थानं मुक्तिरिति सत्यपि मोक्षलक्षणे आत्माऽर्थाय कृत्स्नकर्मेत्याद्युच्यते, पुरुषप्रयत्नप्राप्यो हि कृत्स्नकर्मक्षयः, क्षीणेष्वशेषेषु च कर्मसु अभ्रपटलविलयनेन चन्द्रमसश्चन्द्रिका प्रसारवदात्मस्वरूपं तु निराबाधमवतिष्ठत एव, आवार्या(वरणा)भावे निरावरणस्वरूपस्याऽवस्थान नियमात् , आत्मा ह्यरूपिद्रव्यं, न चारूपिद्रव्यस्योत्पादो वा । उच्यते-' नाऽसतो जायते भाको . नाभावो जायते सत' इति । - न चाऽत्मद्रव्यस्य नाशायोपदेशः, न च कोऽपि तत्र यत्नोन च सम्भव इति नात्मनो मुक्तावभावो नाशो वा, ततो योग्यमुक्तं ' साधकः सिद्धिभावस्ये 'ति । तदनन्तरमूर्ध्व गच्छत्यालोकान्ता'. दिस्युक्तेः ' 'तत्थ गंतूण सिज्झई 'त्युक्तेश्चेषत्प्राग्भारशिलाया उपरि लोकाग्रमधिकृत्याऽवस्थानमेव, तन्निर्वर्तकश्च केवलिप्रज्ञप्तो धर्म एव । . ' 'किञ्चऔपमिकाऽऽदिभव्यखाभावाच्चान्यत्र सम्यक्खकेवलज्ञानदर्शनसिद्धत्वेभ्य' (श्री तत्त्वार्थ अ. १. सू. ४) इस्यादिप्रवचनोक्तमेव स्वरूपेण सिद्धत्वं, परं तत् सर्वेषु जीवेंषु स्वस्वरूपेणास्त्येव, न तूत्पाद्यम् । मांविर्भावोऽपि न यत्नसाध्यः, किन्तु प्रतिबन्धकर्मक्षयसाध्य इति “सम्यगेवोक्तं कृत्स्ने 'त्यादि तदनन्तर (श्री तत्वार्थ सू. अ. १. सू. ५)मित्यादि च । ।
दानाऽऽदिप्रवृत्तिधर्मवत् अनगाराऽगारधर्मवदनुष्ठानधर्मवन्नायं धमों निर्वयः सिंधिभावरूपः, किन्तु सम्यग्दर्शनेत्यादिनोंक्तोऽयमुपादानधर्मः सिद्धिभावः, न च निर्वय॑ते उपादानमिति, उच्यते च ... शास्त्रे-केवलज्ञान-दर्शनाऽनन्तसुख-वीर्याणां साधनत्वं तन्मयश्च सिद्धिभाव इति । स च
साध्य केवलिप्रज्ञप्तेन धर्मेणैवेति-'साधक सिद्धिभावस्ये ति। केवलिप्रज्ञप्तो धर्म इति तु विशेष्य, :: न्यौजितं च तत्प्रतिविशेषणम् , न-वरं केवलज्ञानवानत्र केवली ग्राह्यो, नं श्रुताऽऽदिकेवली।
___ किञ्च-सर्वाङ्गोपाङ्गप्रतिपूर्णस्य केवलत्वं केवलकप्पं जंबूदीव 'मित्यादाविष्यते । अत्रापि मज्ञानांशलेशेनाप्यकलङ्कितमत एव च क्षायिकमाव प्राप्तं ज्ञानं केवलमित्युच्यते "समर्थ विशेषणमाकर्षति विशेष्य 'मितिन्यायाद् केवलिशब्देन केवलज्ञानवानत्र वाच्यः ।