________________
केवलिप्रज्ञप्तस्यैव धर्मस्य पूजका इति परमार्थता निश्चीयते, एतयैवापेक्षया भगवन्तमहन्तं महादेवमाश्रित्योच्यते 'यः पूज्यः सर्वदेवानां, यो ध्येयः सर्वयोगिना 'मित्यादि । - यद्वाऽत्र सुराऽसुरमनुजानां सर्वेषामग्रहः, सर्वशब्दरहितत्वात् । विशिष्टाश्च सुरासुरमनुजाः केवलिप्रज्ञप्तं धर्म पूजयन्त्येव, जघन्यतोऽप्यसङ्ख्येयानां सम्यग्दृशां सुरासुरमनुजानां प्राप्यमाणत्वादिति ।
प्राप्तफलस्याभ्युदयस्यानुद्देश्यत्वादाह-' मोहतिमिरंसुमाली 'ति ।
यद्यपि भगवद्भिः केवलिभिः प्ररूपितो धर्मः सर्वकर्मकक्षहुताशनप्रभः, परं सर्वकर्मणां मूलमतो मोह इत्यत्र तन्नाशकत्वेन स विशेषितः ।
· किञ्च-मणिदीपादिभिज्योतिष्कैस्तमो नाश्यते, तिमिरस्याऽन्धकारविशेषस्य नाशकस्तु दिवाकर एव । अत एव च स तिमिराऽरिशब्देन कोशे संशब्द्यते। यथा च जगति तिमिरं न सूर्याऽपरज्योतिष्कनाश्यं तथा मोहतिमिरमपि न केवलिप्रज्ञप्ताऽपरधर्मनाश्यम् ; किन्तु तन्नाश्यमेवेति युक्तमुक्तं-'महतिमिरांशुमाली 'ति, यथा च दिवाकरोऽवश्यं तिमिरं नाशयति तथा धर्मोऽपि केवलिप्रज्ञतोऽवश्यं मोहतिमिरं नाशयत्येव, अत एवोच्यते–'जन्मभिरष्टव्येकैः सिद्धयत्याराधकास्तासा 'मिति ।।
— अंशुमाल्युपमानेन ज्ञापयति शास्त्रकार इदं यदुत-" यथा यथा ांशुमालिनोंऽशवो लभन्ते प्रसरं तथा तथा जगति तिमिरं प्रणश्यति, तथाऽत्रापि भगवद्भिः केवलिभिः प्ररूपितस्याऽपि धर्मस्याऽस्य यथा यथा जीवेषु विशिष्टाऽऽराधना तथा तथा विशिष्टो मोहनाशः, यावत् सर्वविशिष्टाऽऽराधनाकारिणामन्तर्मुहूर्तमात्रेणाऽप्यपवर्गस्य प्राप्तिकरो मोहनाश इति ।
यद्यपि शास्त्रेषु मोहस्य ‘पड-पडिहा-रसि-मज्जे 'तिवचनेन मोहस्य सुरोपमानतोक्ता, सा सम्यग्दर्शन-ज्ञानवतोऽपि चारित्रमोहोदयेन जायमानं विकलत्वमपेक्ष्य, यतो जगति अमत्ताऽवस्थायां विज्ञतमोऽपि तत्तया ख्यातोऽपि नरो यदा मत्ताऽवस्थामुपगतो भवति, तदा निर्विवेकि शेखरो भवति, तथाऽत्रापि शासने क्षायिकसम्यग्दर्शननन्दिषेणाऽऽदिवत् प्रकृष्टश्रुतधारकोऽप्यसुमान् मोहमदिरामत्तो भवति, तदा निर्विवेकिशेखरमिथ्यात्वान्धित्ढक्समचेष्टाको भवति ।
___ अत्र तु मोहस्य तिमिरेणोपमा सा दर्शनमोहनीयस्य यथार्थतत्त्वबोधश्रद्धानप्रतिपन्थकत्वमाश्रित्योक्तेति ज्ञेयं, बुद्धो हि केवलिप्रज्ञप्तो धर्मोऽवश्यं मोहतिमिरं विनाशयति, अनन्तशोऽप्यात्तानि चारित्राणि मोक्षफलप्राप्तिं प्रत्यफलान्येव जातानि, भगवतः केवलिनो धर्मस्य बोधरूपस्य लब्धिस्तु न जातु कस्यापि मोघीभवति, यतो यः कोऽप्यसुमान् लभते भगवतः केवलिनो धर्मस्य बोधि, स नियमादन्तरपार्धपुद्गलावर्त्तादनावृत्तिपदं लभेतैव, ततो यथार्थमुक्तं भगवता केवलिना प्रज्ञप्तं धर्ममधिकृत्य मोहतिमिरंसुमाली'ति ।
लब्धे च धर्मबोधौ जन्तुरवश्यमर्वाक् पल्योपमपृथक्त्वाद्देशाविरतः स्यात् , सङ्ख्यातेषु सागरोपमेषु