________________
दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः
कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥ २१ ॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्र - रश्मि
प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥ २२ ॥ त्वामामनन्ति मुनयः परम पुमांस
मादित्य - वर्णममलं तमसः परस्तात् । त्वामेव सभ्यगुपलभ्य जयन्ति मृत्युं नान्यः शिवः शिव-पदस्य मुनीन्द्र पन्थाः ॥ २३॥ विभुमचिन्त्यमसख्यमाद्यं
त्वामव्ययं
१७
ब्रह्माणमीश्वरमनन्तमनङ्गकेत्म्
योगीश्वरं
विदित- योगमनेकमेकं
ज्ञान स्वरूपममलं प्रवदन्ति सन्तः ||२४|| बुद्धस्त्वमेव विबुधाचित- बुद्धि-बोधात्
त्वं शंकरोऽसि भुवन-नय-शंकरत्वात् । धातासि धोर शिव मार्ग-विधविधानाद्
नुभ्यं
1
व्यक्तं त्वमेव भगवन्पुरुषोत्तमोऽसि ||२५|| नमस्त्रिभुवनातिहराय
नाथ
तुभ्यं नमः क्षिति-तलामल - भूषणाय ।