________________
१५
भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ दृष्ट्वाभवन्तमनिमेष - विलोकनीयं
नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धोः
क्षारं जलं जल-निधेरसिंतु क इच्छेत् ॥११॥ यः शान्त-राग-रुचिभिः परमाणुभिस्त्वं
निर्मापितस्त्रिभुवनैक - ललाम - भूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां __ यत्ते समानमपरं न हि रूपमस्ति ॥१२॥ वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि
निःशेप-निजित-जगत्रितयोपमानम् । बिम्बं कलङ्क-मलिनं क्व निशाकरस्य __यहासरे भवति पाण्डु पलाश-कल्पम् ।।१३।। संपूर्ण-मंडल-शशाङ्क - कला - कलाप
शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वर-नाथमेकं ___ कस्तान्निवारयति संचरतो यथेष्टम् ॥१४॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि
नीतं मनागपि मनो न विकार-मार्गम् । कल्पान्त-काल-मरुता चलिताचलेन
किं मन्दराद्रि-शिखरं चलितं कदाचित् ।।१।।