________________
१४
प्रीत्यात्म-वीर्यमविचार्य मृगो मृगेन्द्र
नाभ्येति किं निज-शिशो: परिपालनार्थम् ॥५॥ अल्प-श्रुतं श्रुनवतां परिहास-धाम
त्वद्भक्तिरेव मुखरीकुरुते वलान्माम् । यत्कोकिल: किल मधौ मधुरं विरोति
नच्चारुचाम्र कलिका-निकरक हेतु ॥६॥ त्वत्संस्तवेन भव-सन्तति-सन्निबद्ध
पापं क्षणाक्षयमुपैति शरीरभाजाम । आक्रान्त - लोकमलि - नीलमशेषमाशु
मूर्याशु-भिन्नमिव शार्वरमन्धकारम् ।।७।। मत्त्वेति नाथ तव संस्तवनं मयेद
मारभ्यते तनु-धियापि तव प्रभावात् । चेतो हरिप्यति सतां नलिनी-दलेपु
मुक्ता-फलद्युतिमुपैति ननूद-बिन्दुः ॥८।। आस्तां तव स्तवनमस्त-समस्त दोपं
त्वत्सङ्कथापि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभव
पद्माकरेषु जलजानि विकासभाजि ।।६।। नात्यद्भ तं भुवन-भूषण भूत-नाथ __ भूतैर्गुणभवि भवन्तमभिष्ट्वन्त: । नल्या भवन्ति भवतो नन तेन किं वा