________________
पुण्यप्रतापतेजोऽब्धिः, गंगासिंहो नपापणीः। शासको मारवाडस्य प्रजाया अतिवल्लभः ॥ ३८॥ तस्यैव छत्रछायायाम , लोकानामुपकारकः। जैनोद्यानस्य वक्षोऽयम् , फलछायासमन्वितः ॥ ३९॥ वर्द्धतां फलतां शश्वत् , यावच्चन्द्रदिवाकरौं । वर्द्धमानजिनेशस्य, भक्तः शक्तः सदा सुखी ॥४०॥
पञ्चापाभिजनोऽधिकाशि निवसन यो विश्वविद्यालये । शास्त्राचार्यपद तथान्यपदवीः सन्मानितः प्राप्तवान् ।। सिद्धयङ्काङ्कविधौ कुजे शुभदिने शाश्वत्ततीयातिथौ। सोऽयं निर्मितवान प्रशस्तिपटली "मिन्द्रः" गुणैः प्रेरितः ॥ १॥ सेठियास्थापिते पीठे, प्रथमः पादपोऽस्ति यः। वर्द्धितः पुष्पितस्तत्र, प्रथम फलमवाप्तवान् ॥२॥ श्रीमद्भरवदानस्य. पुण्ययोः पादपद्मयोः। पुष्पाञ्जलिं विनीतः सन् , 'इन्द्रचन्द्र प्रयच्छति ।।३।।
अक्षय तृतीया १९९८ बीकानेरनगरम्
इन्द्रचन्द्रः शास्त्री, वेदान्तवारिधिः, शास्त्राचार्यः,
न्यायतीर्थः, B.A.