________________
श्री जैनहितोपदेश भाग ३ जो. १११ पापध्वंसिनिनिष्कामे, ज्ञानयज्ञे रतो भव ॥ सावधैः कर्मयज्ञैःकिं, भूतिकामनयाविलैः ॥२॥ वेदोक्तत्त्वान्मनः शुध्या, कर्मयज्ञोऽपि योगिनः॥ ब्रह्मयज्ञ इतीच्छंतः, श्येनयागं त्यजन्ति किम् ।।३।। ब्रह्मयज्ञं परं कर्म, गृहस्थस्याधिकारिणः ॥ घूजादिवीतरागस्य ज्ञानमेव तु योगिनः ।। ४ ।। भिन्नोद्देशेन विहितं, कर्म कर्मक्षयाक्षमं ।। क्लृप्तभिन्नाधिकारं च, पुत्रेष्ट्यादिवदिष्यतां ॥ ५॥ ब्रह्मार्पणमपि ब्रह्म यज्ञांतर्भावसाधनं ।।। ब्रह्मानौ कर्मणो युक्तं, स्वकृतत्व स्मये दुते ॥ ६॥ ब्रह्मण्यर्पित सर्वस्वो, ब्रह्मदृग् ब्रह्मसावनः॥ ब्रह्मणा जुह्वदब्रह्म, ब्रह्मणि ब्रह्मगुप्तिमान् ॥ ७॥ ब्रह्माऽध्ययननिष्ठावान, परब्रह्म समाहितः ।। ब्रह्मणो लिप्यतेनाथै, नियागप्रतिप्रतिमान् ॥ ८॥