________________
२२ श्री जैनहितोपदेश भाग २ नो,
सम्यक्त्वं भज. सम्यग् दर्शन संशुद्धः सत्य मानुच्यते बुधैः ॥ . सम्यक्त्वेन विना-जीवः पशुरेव न संशयः ॥ १९ ॥ सम्यक्त्व युक्त जीवस्य, हस्ते चिंतामणिर्भवेत् ॥'. कल्पवृक्षो गृहे तस्य, कामगव्यनु गामिनी ॥२० ।। सम्यक्त्वाऽलंकृतो यस्तु, मुक्ति श्री स्तं वरिष्यति ।। स्वर्गश्रीः स्वय मायाति, राज लक्ष्मी सुखी भवेत् ॥२१॥ यत्र कुत्रापि सद् दृष्टिः पूज्यः स्याद्भवनैरपि ॥ सम्यक्त्वेन विना साधुः निन्दनीयः पदे पदे ॥२२॥ सकल सुख निधानं, धर्म वृक्षस्य बीजं ॥ जनन जलधि पोतं, भव्य सत्खैकपात्रं ।। दुरित तर कुठारं, ज्ञान चारित्र मूलं ।। त्यज सकल कुधर्म, दर्शनं त्वं भजस्व ॥ २३ ।। भाषा बुद्धि विवेक वाक्य कुशलः शंकादि दोषोषितः। गंभीरः प्रशमश्रिया परिगतो वंश्येन्द्रियो धैर्यवान् ।