________________
तत्वार्थविवरurjायदीपिका । फर्तृत्वाश्रयतया सोऽप्यवगत एवेति न तत्र कर्तृत्वभानेन कृत्यम् , प्रकृते तु शुद्धिक्रियाकर्तृत्व सम्यग्द
नगत शुद्धज्ञानावाप्तिक्रियाकर्तृत्व चात्मगतमित्याश्रयभेदाद् द्विवा कर्तृत्वभान सप्रयोजनमेवेति वाच्यम् , ज्ञानदर्शनोपयोगलक्षणस्याऽऽत्मनः सम्यग्दर्शनाभेदेनाश्रयभेदस्याप्यभावात् । यत्तु " प्रथमार्थः प्रकृत्यर्थविशेषणविधयाऽन्वयिनी संख्यैव, अत एव यत्र विशेष्यवाचकसमानविभक्तिपदं निपातपदं वा नास्ति तत्र प्रथमान्तार्थस्य विशेष्यमासकसामध्यभावादसौ मुख्य विशेष्यतयैव भासते” इति गदाधरग्रन्थपालोचनया प्रथमान्तार्थमुख्यविशेष्यकशाइयोधाभ्युपगन्तॄणा नैयायिकानां मते आख्यातार्थस्य कर्तृत्वस्य प्रथमान्तार्थविशेषणतया धात्वर्थविशेष्यतया च भानस्योपपन्नत्वेऽपि भावप्रधानमाख्यातमिति गृत्यनुसाराद् भाव५ज्ञानदर्शनापयोगेत्यादिना । अत एवेति-प्रकृत्यर्थे विशेषणविधयाऽन्वययोग्यायाः संख्याया एव प्रथमार्थत्वादित्यर्थः । एतेन चैत्रादीनामेकत्वमात्रबोधनाय तत्तात्पर्येण चैत्र इति वाक्याप्रथमान्तार्थचत्रमुख्यविशेष्यकैकत्यप्रकारकबोधस्य लसत्वेन चैत्रः पचतीत्यादावपि. सति सम्भवे प्रथमान्तार्थस्यैव मुख्यविशेष्यत्वमिति सूचितम् । विशेष्यवाचकसमानविभतिकपदं निपात५६ वा नाऽस्तीति। पीन इत्यत्र नील इत्यत्र च विशेष्यवाचकसमानविभक्तिकपदं निपातपदं वा नाऽस्तीति यथाक्रमं पीन एवं नील एव च मुख्यविशेष्यतया प्रथमाविभक्त्यर्थंकत्वञ्च विशेषणतया भासते, पीनचैत्र इत्यत्र नीलो घट इत्यत्र च निपातपदाभावेऽपि पीन इति पदस्य नील इति पदस्य च समानविभक्तिकविशेष्यवाचकं यथाक्रम चैत्र इति घट इति च पदमस्तीति मुख्यविशेष्यतया चैत्र एवं घट एव च भासते, तत्र च विशेषणविधया यथाक्रमं पीनो नीलश्च प्रथमार्थकत्वसंख्या च भासते । चैत्रो नातीत्यत्र विशेष्यवाचकसमानविभक्तिकपदाभावेऽपि नास्तीति निपतिपदमस्तीति न चैत्रो मुख्यविशेप्यतया भासते, किन्तु नास्तिपदबाच्योऽभाव एवेति भावः । भावप्रधानमाख्यातं सत्वप्रधानानि नामानीति यास्कवचनं, तत्र भावप्रधानमित्यस्य कोऽर्थः ? इति चेत् । व्यापारप्रधानमित्यर्थः, " व्यापारी भावना सैपो-पादना सैव च क्रिया" इति कौण्डवचनात्, इति प्राचीनवैयाकरणा दीक्षितादय एवं मन्यते । नागेशास्तु भावप्रधानाभित्यस्य शुद्धधात्वर्थों भावो, धात्वौँ फलव्यापाराविति धात्वर्थप्रधानमित्यर्थः । कुत्रचिच्छदरत्नादौ क्रियाप्रधानमाख्यातमिति दृश्यते, तत्र क्रियाशब्दस्य करणं क्रिया, क्रियत इति च क्रियेति व्युत्पत्तेद्वधर्थकत्वम् । तेन कर्तृप्रत्ययस्थले व्यापारमुख्यविशेष्यको बोधो भवति, कर्मप्रत्ययस्थले फलख्यविशेष्यको बोधो भवति, तत्र प्रमाणं " सुप आत्मनः क्यच्" इति सूत्रस्य माध्यमेव, तत्र हि इण्यते पुत्र इति विग्रहे क्यच्प्रत्ययो न भवति, पुत्रमिच्छतीति विग्रह क्यच्प्रत्ययो भवति, तत्र किं विनिगमकमिति प्रश्ने सत्युत्तरयति भाष्यकारो भिन्नार्थत्वात् , अत्राऽऽशकते किमत्र भिन्नार्थत्यं ? समाधत्ते, एकत्र व्यापारः प्रधानोऽपरत्र च फलं प्रधानम् , इदमेव मिनार्थत्व, व्यापारमुख्यविशेष्यकबोधस्वीकारादेव पश्य मृगो धावतीत्यादौ मृगकर्तृक धावनं शिकियायां कर्म, प्रधानं शिक्रियवत्याशयेनाऽऽह-भावप्रधानमाख्यातमिति स्मृत्यनुसा