________________
.
तरवार्थविपरणार्थदीपिका । पंचविशत्तममृ० टी०, : ३९१ : केवलज्ञानं केवलज्ञानपर्यायान् वाऽऽहाय सर्वसंसारिषु, शुद्धत्वं समर्थनीयं स्यात्, तत्र फर्मोपाधिनिरपेक्षत्वं विषये काँपाधिप्रयुक्तभेदग्रहाविषयत्वम् , तच्च यधपि भेदग्रहप्रतिपक्षसामयनुप्रवेशविधया द्रव्ये निरुपचरितसंग्रहेण प्रतिपादयितुं शक्यम् , तथापि पर्याय न कथञ्चित्, पर्यायस्य संग्रहाविषयत्वात्, पर्यायनये च भेदस्यैव पुरःस्फूर्तिकत्वात् सदृशापरापरक्षणोत्पत्त्या भेदबुद्धितिरोधान तु कोपाधिसाक्षेपतामेव समर्थयेत्, न तन्निरपेक्षताम् , उपपलवावस्थायां सहशापरापरक्षणानां कर्मसापेक्षाणामेवोत्पत्तेः, न चोपलवानुपप्लवसाधारणं सादृश्यमेकमस्ति, विसमागपरिक्षयादेव मोक्षप्रतिपादनात्, संग्रहानुगतीकृतविषयपुरष्कार च न शुद्धः पर्यायनयः समर्थितः स्यात् । भाविनि वर्तमानोपचाराश्रयणे च नैगमव्यवहारावाश्रितौ भवेयाताम् , न चैवं कथमपि प्रत्युत्पन्नपृथिवीकायादिस्पादिपरिच्छेदव्यक्तयः केवलज्ञानं केवलज्ञानपर्यायान् वाऽऽदाय सर्वसंसारिषु शुद्धत्वं समर्थनीयं स्यादिति-केवलज्ञानरूपद्रव्याश्रयणेन मत्यादिसर्वज्ञानानामभिन्नत्वात् केवलज्ञानशुद्धत्वेन शुद्धत्वं सर्वथा कर्मोपाधिविलयानन्तरमाविकेवलज्ञानपर्यायाणामाश्रयणेन तच्छुद्धत्वात् पूर्वपूर्वमत्यादिज्ञानपर्यायाणामपि फेवलज्ञानरूपद्रव्यपर्यायरूपतयाऽभेदाच्छुद्धत्वं वा समर्थनीयं स्यादि . त्यर्थः । न तत्समर्थनं समीचीनतामञ्चतीति प्रतिपादनायाह-तत्रेत्यादि । विषय इतिज्ञानस्वरूपविषय इत्यर्थः । उपपलवावस्थायामिति-सरागचित्तसन्तत्यवस्थायामित्यर्थः । विसभागपरिक्षयादेवेति-विसभागाः विसभागसन्ततिरूपाः केवलज्ञानपर्यायापेक्षया मत्यादिज्ञानपर्यायाः, विभावपरिणतिरूपत्वात्तेषाम् , तत्परिक्षयादेव तानाशादेवेत्यर्थः । मोक्षप्रतिपादनादिति पर्यायनयेनेति शेषः । संग्रहानुगतीकृतविषयपुरस्कारे चेति. संग्रहनयाभ्युपगतानुगतधर्मेण केवलज्ञानपर्यायैस्सहाऽभेदीकृतानां मत्यादिज्ञानपर्यायाणां केवलज्ञानपर्यायशुद्धत्वन शुद्धत्वाभ्युपगम इत्यर्थः । भाविनि वर्तमानोपचाराश्रयण इति-भाविनि केवलज्ञाने वर्तमानत्वोपचारेण मतिज्ञानादिकालेऽपि केवलज्ञानस्य सद्भावातछुद्धत्वन तच्छुद्धत्वाश्रयण इत्यर्थः । तत्र दोषमाह नैगमव्यवहारावेपाश्रितो भवे. यातामिति-तन्मत एपोपचाराश्रयणस युक्तत्वादिति भावः । अयमभिप्रायः शुद्धसंग्रहो द्रव्यमेवाभ्युपगच्छति, अतोऽस्याभेदज्ञानसामग्रीघटकत्वेन भेदज्ञानपरिपन्थित्वात् केवलज्ञानस्य द्रव्यरूपत्वाभ्युपगमेन मत्यादिज्ञानानामपि भिन्नानामनाश्रयणेनाभेदाश्रयणा स्व. विषयकेवलज्ञाननिष्ठकोपाधिप्रयुक्तभेदग्रहाऽविषयत्वलक्षणं शुद्धत्व सम्भवति, अतस्तदाश्रयणेन सर्वज्ञानानां यद्यपि शुद्धत्तमुपपादयितुं शक्यम् , तथापि त छक्त्यैव, न तु व्यक्त्या, यतस्स ग्रहनयेन केवलज्ञानस्य वर्तमानमत्यादिज्ञानकाले शक्तिरूपेण सत्वेऽपि न तत्तन्मत्यादिज्ञानव्यक्त्यात्मनावस्थानमिति तमित्यादिज्ञानव्यक्तीनां व्यक्त्यात्मना संग्रहनयो न कथा मपि - शुद्धत्व प्रतिपादयितुं - शक्तः, पर्यायनय केवलज्ञानं पर्यायरूपतयैवाऽभ्युपगच्छति, तद युपगमश्च पूर्वोत्तरज्ञानानां भेदाश्रयणेनैव, भेदश्च केवलज्ञानपूर्वभाविनां मत्यादिज्ञानानां कर्मोपाधिप्रयुक्त ५१, नात स्वविषयज्ञानगतकोषाधिप्रयुक्तभेदग्रहाविषयत्वं शुद्धत्वं तत्र