________________
सत्यार्थविवरणदार्थदीपिका । पञ्चविंशतम०टी०
: ३६१ : एवं संग्रह-यापारप्रवृतेरिति चेत्, सत्यम्, यद्धर्मप्रकारकेतरनयनहस्य विनिर्मोंकतद्धर्मप्रकारकद्रव्योपयोगस्यैव संग्रह नयनोत्थानादवान्तरसामान्यग्रह संभवा सकलपर्यायनयग्रहविनिमोक एवं महासामान्योपयोगात्मकसंग्रहविश्रान्तः । तदुक्त वादिमुख्येन- पज्जवणयवुकंत' इत्यादि । व्यवहारनयाभिप्रायमाह रो
येत्यादि, तेष्वद्विवनामादिरूपेषु घटेषु, लौकिका लोकविदिताः, परीक्षकाः पालोचकाः, तेषां प्रायेषु अभिलापविषयेषु जलाहरणार्थप्रवृत्तिविषयेषु च उपचारगम्येषु मुख्यत्वेन पूजाविषयेषु 'लक्षणाविषयेषु च, यथा स्थूलेषु सूनसामान्योपसर्जनेषु, संप्रत्ययो । हकेण केनापि पर्यायनयेन ग्राह्यत्वाभावात्सामान्यरूपत्वाऽभावेन विशेषरूपत्वमेव स्थादिति चेद्, भवतु तथा, का नाम क्षतिः । अपसिद्धान्तत्यप्रसङ्ग इति चेत्, मवम् , " अयं द्रव्योपयोगः साद्, विकल्पेऽन्त्ये व्यवस्थितः । अन्तरा द्रव्यपर्याय-धीः सामान्यविशेषवत् ॥१५॥" इति श्लोकव्याख्यायां अयं द्रव्योपयोगः द्रव्यार्थि कनयजन्यो बोधः अन्त्ये विकल्पे शुद्धसङ्ग्रहाख्ये व्यवस्थित पर्यायबुद्धयाऽविचलितः सादित्युक्त्या शुद्वसङ्ग्रहविषये महासामान्ये पर्यायार्थिकनयो न प्रवर्त्तत इति तत्सामान्यरूपमेव न पर्यायरूपमित्युक्तम्भवति । अन्त्यविशेषविकल्प च शुद्धर्जुमूत्रलक्षणे कारणाऽभावादेव द्रव्योपयोगो व्यवस्थित स्यात्-व्युपर तरयादित्युक्त्या शुद्धर्जुनलक्षणस्य शुद्धपर्यायावगाहिनयस्य विषयेऽन्त्यविशेषे द्रव्योपयोगो द्रव्यार्थिकनयजन्यवोधो न प्रवति इति स विशेष एव न सामान्यमित्युक्तम्भवतीति नापसिद्धान्त
प्रसङ्ग इति, विशेषार्थिना नयोपदेशवृत्तिरवलोकनीया, न च महासामान्यस्य सामान्यकारूपत्वेऽन्त्यविशेषस्य च विशेषकान्तरूपत्वेऽनेकान्तत्वविरोधस्स्यादिति वाच्यम् , महासामान्यस्यापि तदुपरविशेषापेक्षयैवान्त्यविशेषस्यापि च तत्पूर्वसामान्यापेक्षयैव सद्रूपत्वेन विषयतासम्बन्धेन परस्परसापेक्षोभयविषयताकत्रोधम्प्रति तादात्म्यसम्बन्धेनोभयात्मकविषयस्य कारणतया प्रत्येकस्याप्युभयरूपत्वनानेकान्तत्वविरोधाभावात् । अत एव द्रव्यार्थिक केवलमहासामान्यात्मकद्रव्यविषयताकत्वेन पर्यायार्थिकश्च फेवलविशेषात्मकपर्यायविषयताक वन सुखजातीय इति सिद्धान्ते नाभ्युपगतम्, प्रत्येकनयस्याप्युपसर्जनीकृतस्यान्यविषयप्रधानीकृतस्त्रविषयतया प्रधानगौणभावेन सामान्यविशेषोभयविषयताकत्वेनाभ्युपगमात् । उक्तश्व सागतो-"वडिओ ति तम्हा, नस्थि णओ नियमसुजाईओ । ण य पजबडिओ णाम, कोइ भयणाइ उ विसेसो ।। १-९॥" इति द्वितीयोऽर्थः । उपचारपदस्य पूजालक्षणारूपार्थद्वयविवक्षनाह-मुख्यत्वेनेति। ये हि मुख्या अर्थक्रियाकारित्वात्प्रधानास्ते पूजनीया भवन्ति व्यवहार नयविषयतयाऽभिमतेषु विशेषरूपार्थेषु लौकिकप्रवृत्तिनिवृत्तिलक्षणव्यवहारसम्पादकतया मुख्यत्वेन पूजाविषयेषु लोके पन्था मच्छति कुण्डिका सवति इत्यादि व्यवाहियते तदुपपादनाय पथिशब्दस्य पान्थे कुण्डिकापदस्य कुण्डिकास्यनले लक्षणेत्येवं लक्षणाविषयेषु चेत्यर्यः । सूक्ष्मसामान्योपसर्जनेविति-आचालगोपालद्धयग्राह्यत्वात्सूक्ष्मं यत्सामान्यं तस्योपसर्जन