SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ सत्यार्यविवरणगूढार्थदीपिका । पञ्चत्रिशमसू०टी० सामान्यादिकमेव पूर्व गृहीत्वा पश्चापद्विशेषपालोचनेन तहस्य विनिर्मोकः परित्यागः, एपञ्च यद्धमत्यनेनावान्तर सामान्यादिधर्मस्य ग्रहणं तत्प्रकारकस्य संग्रहेतर व्यवहारादिनयेन ... ग्रहस्योक्तदिशा विनिर्माको भवतीत्यया रसामान्यादिप्रकारकद्रव्योपयोगस्यैवापरसङ्ग्रहनयेनोत्थानादु वात् , तेन चापरसग्रहनयेनावान्तरसामान्यग्रहात्, महासामान्ये तु कोऽपि विशेषग्राहको पर्यायनयः प्रवर्तत एव नेति सकलपर्यायनयेन ग्रहस्य प्रथमत एवं विनिर्मोक एवेनि महासामान्यमन्यनयाऽविषय एव सङ्ग्रहविषय इति तदुपयोगात्मकसङ्ग्रहस्य विश्रान्तेः, ततो ह्यनुगतस्यातिरिक्तस्याभावात् ततः परं द्रव्योपयोगाप्रवृत्तेरिति निर्गलितोऽर्थः ॥ उक्तार्थे सम्मतितर्कनयकाण्डाटम गाथासम्मतिमाह-" पजवणयवुकतं" इत्यादि । अत्र-पजवणययुक्त, वत्थु दव्यडियस चयणिज ।। जाय दरिओगो, अपच्छिमबियप्पनिब्धयणो ॥ १-८॥ इति सम्पूर्णगाथा । अत्र न विद्यते पश्चिमे उत्तरे विकल्पनिर्वचने सपिकल्यधीव्यवहारलक्षणे यत्र सः अपश्चिमविकल्पनिर्वचनः, संग्रहावसान इति यावत् , ततः परं विकल्पवचनाप्रवृत्ते, इदृशो यावद् द्रव्योपयोगः प्रयतते तावद् द्र०यार्थिकस्य वचनीयं वस्तु, तच पर्यायनयेन व्युत्क्रान्त वि-विशेषेण उत्-ऊर्ष कान्तं-विषयीकृतमेव, पर्यायानाक्रान्तसत्तामात्रसद्भावग्राहकस्य प्रत्यक्षस्थानुमानस्य वा प्रमाणस्थाभावात् पर्यायान्तिस्यैव सर्वदा सत्तारूपस्यार्थस्य ताभ्यामवगतः, वटः सन् पटः सन् मठसन्नित्यादिप्रत्यक्षप्रतीतिभ्यो विशेष्यविधया वटपटादीनां पर्यायाणामपि सिद्धः, तेपां काल्पनिकत्वे प्रकारीभूताया: सत्ताया अपि तथात्वापत्तेः, तादृशवतीतिविपयत्वस्य तत्रापि समानत्वादित्येकोऽर्थः । यद्वा यतु सूक्ष्मसूक्ष्मतरसूक्ष्मतमादिधुद्धिना पर्यायनयेन स्थूलरूपं त्यजतोत्तरोत्तरतत्तत्सूक्ष्मरूपाश्रयणात् व्युत्मान्तं गृहीत्वा विचारेण मुक्तं, किमिदं मृत्सामान्य घटादिविशेपैविना प्रतिपत्तिविषयः, यावत् सूक्ष्मतमरवरूपोऽन्त्यो विशेषतावत्स द्रव्यार्थिकस्य वचनयिम् , पूर्वपूर्वस्योत्तरोत्तरापेक्षयाऽनुगतरूपत्वादेवोत्तरोत्तर नयेन सूक्ष्मसूक्ष्मतरतत्तद्विशेषग्राहिणा परित्याग इति तस्य पूर्वपूर्वरूपस्य सामान्यात्मकस्य द्रव्यत्वमायात मेवेति तद्विप यकस्य नयस्य द्रव्यार्थिकत्वम् , तद्ग्राह्यस्य पूर्वपूर्वरूपस्योत्तरोत्तरसूक्ष्मसूक्ष्मतरपर्यायनयत्यत्तस्यार्थस्य द्रव्यरूपत्वम् , उत्तरोत्तरस्य च पूर्वपूर्वरूपापेक्षया विशेषरूपत्वेन पर्यायरूपतया तग्राहिणो नयस्य पर्यायार्थिकत्वम् , तद्यायस्य चोत्तरोत्तरपर्यायरूपत्वम् , यदेव चोत्त. सपेक्षया पूर्वरूपत्वात् सामान्यरूपं तदेव व स्वपूर्वापेक्षया विशेषरूपमित्येकस्यापि वरतुनः सामान्यविशेपोमयरूपत्वेन द्रव्यार्थिकपर्यायार्थिकनयविषयत्वम् , यतो यावदपश्चिमविकल्प निर्वचनोऽत्यो विशेषतावद् द्रव्योपयोगो द्रव्यज्ञानं प्रवर्तते, न हि द्रव्यादयो विशेषान्ताः सदादिप्रत्ययाऽविशिष्टका व्यावृत्तबुद्धिग्राह्यतया प्रतीयन्ते, न च तथाऽप्रतीयमानायाऽभ्युपसमाहर्हाः, अनिप्रसङ्गात् , तदेवं न सत्ता विशेषविरहिणी नापि विशेषासत्ताविकला इति सिद्धम् । ननु महासामान्यस्य तत्पूर्व सामान्यामानात शुद्धसतरनयविषयत्वाभाविन विशेषरूपत्वानवासामान्यः पवमेव पात्, एम.त्यविशेषस्थापि तदुपर विशेषाभावात्ता
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy