________________
: ३५२ : तरवार्थविवरणपूढार्थदीपिका । पंचत्रिंशत्तमसू० टी० सम्भवात् , आख्यातजन्यसंख्याभावनाप्रकारकबोधे च प्रथमान्तपदजन्यपदार्थोपस्थितेरेवेतरविशेषणवतात्य याविषयत्वावच्छिन्नविशेष्यतयाहेतुत्वान्न गौरसम् , संबन्धगौरवस्यादोषत्वात् , केवलं भावनाप्रकारको प्रति धात्वर्थभावनोपस्थितेः पृथग्वेतुत्वे तवैव गौरवम् । पश्य मृगो धावतीत्यत्र तु तमिति कर्माध्याहार्यमेव,
विशिष्टनाशप्रतियोगीत्येवं बोधः, नश्यतीत्यस्य भविष्यत्कालीनोत्पत्तिविशिष्टनाशप्रतियोगीति जोधः, न४ इत्यस्यातीतकालीनोत्पत्तिविशिष्टनाशप्रतियोगीति वोधः । आख्यातजन्यसंख्याभावनाप्रकारकबोधे चेति-विशेष्यतासम्बन्धेनेति शेषः । यथा चैत्र पचतीत्यत्र पाकानुकूल कृतिमान् एकत्नयाँश्च चैत्र इत्याकारके पाकानुकूलकृतिनिष्ठप्रकारताकत्वे सत्येकत्वनिप्रकार: ताकचैत्रनिष्ठविशेष्यताको धात्वर्थविशेष्यतया भासमाना कृतिः एकत्यसंख्या पाख्यातार्थः प्रथमान्तपदार्थे चैत्रै प्रकारतया भासते, विशेष्यतासम्बन्धेनोक्तयोथे च विशेष्यतासम्बन्धेन प्रथ- . मान्तपदजन्योपस्थितिः कारणमिति प्रथमा तार्थ ख्यविशेष्यक एव शाब्दबोधः, तत्र चेत्यर्थः । चैत्र ३२ मैत्रो गछतीत्यादौ चैत्रे संख्याअन्वयवारणाय सम्बन्धमध्ये इतरविशेषणवतात्पर्याऽविषयत्वावच्छिन्नान्त विशेष्यताया विशेषणमुपात्तम् । अथ चैत्र एव गच्छत्तीत्यत्रात्ययोगव्य बच्छेदरूपैवकारार्थेकदेशेऽन्यत्वे प्रतियोगितासंसर्गेण चैत्रस्यान्वयादितरविशेषणत्यतात्पर्यविषयस्यादितर विशेषणत्यतात्पर्याविषयत्वावच्छिनविशेष्यतासम्बन्धेनोपस्थितेश्चैत्रेऽभावात्कथमेकत्वाबयस्तत्र, पश्य मृगो धावतीत्यत्रापि च धावनमृगस्य कर्मतासम्बन्धेन दर्शनेऽन्वयादितरविशेषणत्वतात्पर्यविषयत्वात्कथं तत्र संख्या-यय इति न च शक्यम् , इतर विशेषणत्वमात्रतात्पर्याविषयत्वावच्छिन्नत्वस्य विशेष्यताविशेषणतया विवक्षितत्वात, चैत्र एव गच्छत्तीत्यत्र चैत्रस्य पश्य मृगो धावतीत्यत्र मृगस्य च विशेष्यतयाऽपि तात्पर्यविषयत्वेन संख्यान्वयसम्भवादिति । केवलं भावनाप्रकारकबोधम्प्रतीति-प्रकारतासम्बन्धेनेति शेषः । धात्वर्थभावनोपस्थिते. रिति-भावनानिष्ठविशेष्यतासम्बन्धेन थातुजन्योपस्थितेरित्यर्थः । भावनापदमत्र तनिष्ठविशेष्यतालाभार्थमेव । प्रथमान्तार्थे आख्याता संख्या-वयानुरोधेन विशेष्यतासम्बन्धनाख्यातार्थकत्वप्रकारकशाब्दयोधम्प्रति विशेष्यतासम्बन्धेन प्रथमान्तपदजन्योपस्थितिः कारणमिति कार्यकारणभावोऽपि पूर्वकार्यकारणभाववदावश्यको भवतामित्यभिप्रायेणाह-तवैव गौरवमितिन्यायमते तु विशेष्यतासम्बन्धेनाख्यातार्थभावनाप्रकारकत्वे सत्याख्यातासङ्ख्याप्रकारक' शान्दबोधप्रति विशेष्यतासम्बन्धेन प्रथमा पद जन्योपस्थितिः कारणमित्येक एवं कार्यकारण भाव इति लावतम् । कर्माध्याहार्थमेवेति तथा च व्याकरणमतेऽपि तत्र वाक्यभेद स्वीकार्य एवेति भावः। ५३य मृगो धावतीत्यत्र मृगकर्तकधावनक्रियाकमकसम्बोध्यपुरुषककदर्शनक्रियाविषयकशाब्दयोधस्याऽभ्युपगमेन बाक्यभेदाऽसम्मवेऽपि यत्रैककटकानेकक्रियाया बोधतत्र नियारूपमुख्यविशेष्यभेदेन वाक्यभेद ९५यादेव, तत्रापि यककटकाणामने क्रियाणां यथा कथचित् परस्पर साकारत्वमाश्रित्यकवाक्यार्थयोधगम्य वाक्यभेदः परिहियते तदापि यतकर्द- ..