________________
તાવાર્થવિહળદાર્થવિ પરામgo રી૦ (यशो० टीका) एकशब्दः प्राथम्ये । तत एकादीनि प्रथमादीनि, भाज्यानि विकल्पनी-'. यानि, क्वचितप्रथमम् , क्वचित् द्वे इत्यादिप्रकारेण, युगपदेककाले, एकस्मिन् प्राणिनि, आचतुर्थ इत्याधनेकार्ये एकशब्दः प्रवर्तते, तत्रैहैकशब्दो विवक्षातः प्रायम्यवाचक इत्याह-एकशदः प्राथम्ये इति, तथा अकादीनीत्यस्यार्थमाह-प्रथमादीनीति ज्ञानप्रस्तावाद पञ्चज्ञानमध्ये पूर्वानुपूर्या प्रथमं मतिज्ञानमादि येषु तानि तथेत्यर्थः । लवकर्णमानयेत्यादावित्रापि बहुव्रीहिस्तद्गुणसंविज्ञान एव "तस्थान्यपदार्थस्य गुणा विशेषणानि समस्यभानपदानामा अन्यपदार्थे विशेषणतया विज्ञायन्ते यत्र" इत्येवं लक्षणो ग्राह्यः, न तु दृष्टसागरमानयेत्याहावित्रातद्गुणसंविज्ञानसः, तथा सति समासावयवदृष्टसागरपदार्थस्येव समासावयवैकपदवाच्यमतिज्ञानस्याप्युपलक्षणविधयव भानापत्तेस्तद्वत्तद्ग्रहणं न स्यात, तद्गुणसंविज्ञानबहुव्रीह्याश्रयणे तु लम्बकर्णभानयेत्यादौ समासावयवलम्वकर्णपदार्थसापि विशेषणतया भानमिव एकादीनीत्यत्रापि समासावयवैकपदार्थस्य मतिज्ञानस्यात्यपदार्थे विशेषणतया भानमु. पपद्यत एवेति मतिज्ञानग्रहणमपि स्यादेवेति । एतेन प्राथम्यवचन एकशब्दः, आदिशब्दश्चात्यकवचनः, तेनैतदुक्तं भवति एकस्यादिरेकादिः, प्रथमस्यावयवः, प्रथमश्चात्र परोक्षज्ञान, तसावययो मतिज्ञानम्, ततोऽन्यपदार्थे वृत्तावेकस्यादिशब्दस्य लोपः, उष्ट्रमुखवत, यथोष्ट्रस्य मुखमुष्ट्रमुखम् , उष्ट्रमुखात्मुखमस्येति वृत्तावेकस्य लोपः, एवमिहापि एकादिरादियेषां तानीमान्येकादीनीत्येकस्थादिशब्दस्य लोप इति तत्वार्थराजवार्षिकोत्तमपि निरस्तम्, यत उसाक्लिप्टकल्पनाऽपेक्षया लाघवादेकादीनी त्यत्र तद्गुणसंविज्ञानबहुव्रीहिसमासाभ्युपगम एव श्रेयानिति । युगपदित्यसार्थमाह - एककाले इति तथा च एककालावच्छिन्नभिन्नज्ञानसमानाधिकरणानि मतिश्रुतावधिमना: पर्यायज्ञानानि भाज्यानीति समुदितार्थः । ननु मतिश्रुतावधिमनापर्यायज्ञानानि न युगपद्भवन्ति भिन्न कालावच्छिन्नभिन्न सामयुत्पद्यमानत्वात् , चाक्षुपसिनादिज्ञानवत् , प्रत्यक्षानुमानादिवद्वत्यनुमानेन योगपद्यनिषेधेनार्थतः क्रमभावित्वसिद्धेनॊक्तं युक्तम् । अथ शकुलिभक्षणे पञ्चेन्द्रियजन्यपञ्चज्ञानानि युगपत्सनिहितरूपादिपञ्चविषयाणि भवन्तीति तटान्तेन मत्यादिज्ञानान्यपि युगपद्भविष्यन्तीति चेत् , न, शकुलीभक्षणस्थलेऽपि क्रमभाविपञ्चज्ञानेष्वेव लधुवृयोगपधभ्राः न्तिभावात् , अत एव नैयायिकादयोऽप्येकदैकमेव ज्ञानमभ्युपगच्छन्ति, यस्य ज्ञानस्य प्रबलतरसामग्री तदन्यज्ञानं प्रतिवध्य तस्यैव ज्ञानस्योत्पादाद, अत एव " युगपज्ज्ञानानुत्पत्तिमनसो लिङ्गम" १-१-४ इति गौतमीयसूत्रमपि सङ्गच्छते इति चेत्, उच्यते, उक्तानुमानादुपयोगाभकानामेव ज्ञानानां योगपधनिषेधः सिद्धयति, से विष्ट एवास्माकमपि, "जुग दो नत्थि उपओगा" इति विशेषावश्यकमाण्यवचनात् । अनेन भाष्यवचनेन युगपदुपयोगद्वयं निषिध्यते, जवन्यतो यस्य ज्ञानस्यैकं समयमुत्कृष्टखोजतर्मुह वा स्थितिः तज्ज्ञानकालावच्छेदेनोपयोगात्मकज्ञानान्तरानुत्पादाद, न स्वनुपयोगात्मकानां मत्यादिज्ञानानां शक्तिया योगपर्व निराक्रियते, सेवा सिद्धान्त पट्पटिसागरोपमस्थित्यादिकालमानस्य प्रतिपादना, 'उक्तञ्च-जैनस्यापि हि