________________
: २६४ :
વાર્થવિગૂઢાર્થીપિન્ન પતિ ટીવ न श्रुतमिदं किन्तु चेष्टादिभ्यो मतमित्यत्र तु साक्षाद्वयञ्जनाक्षराजन्यज्ञानत्वमेव मतत्वं बोध्यम्, लिपिस्थलेऽपि तथाध्यवसायादिति बोध्यम् । करादिचेष्टानां पर प्रत्यायकत्वेऽपि तासु द्रव्यमतित्वेन सयभावान्न मतिज्ञानं परप्रत्यायकमिति *जयः। “आधीयतां हृदि मतिश्रुतभेदचिन्ता, दिड्मात्रभेतदिह भाष्यमहार्णवस्य ॥ नव्योक्तिमेरुमथनेन ततोऽर्जिता या, सा ज्ञानाविन्दुनिहितैक्यसुधापि लेखा ॥१॥" न तु सज्ञया प्रत्येमीत्यपि निरस्तम् , तस्य ज्ञानस्य साक्षाचार्यमाणशदाजन्यत्वादेव शब्दाप्रत्येमीति प्रतीत्यभावात् । अयम्माव:-शब्दात्प्रत्येमीति प्रतीतो शब्दजन्यत्वस नियामकत्वेन चेष्टाजन्यज्ञाने तदभावादेव नोक्तप्रतीतिः, न तु शाब्दबोधरूपत्वाभावादित्याह-न श्रुत. . मिदमिति । भवतु वा मतिज्ञानस्य कारणं करादिचेष्टा परप्रबोधिका च, तथापि सा 'द्रव्यमतिः' इत्येवमागमे क्वचिदपि न रूढा, पुस्तकादिन्यस्तं व्यञ्जनाक्षररूपश्च द्रव्यश्रुतं पुनः श्रुतम्' इत्येवं सर्वत्र रुदम् । यदाह विशेषावश्यकभाष्यकारोऽपि-"ढंति व दव्यसुयं सुयं ति रूढानदयमई ।१७४।" इति । ततश्च यधपि करादिचेष्टा मतिज्ञानस्य कारणं परप्रतीतिजानिका च तथापि द्रव्यमतित्वेनारूढत्यात् कारणे कार्योपचारं कृत्वा मतिरूपतया न व्यवहियते, अतो भतिज्ञानरूपासा नेति न तद्वारेण तस्य परप्रत्ययोत्पादकत्वम् , द्रव्यश्रुतं तु कारणे कार्योपचारं कृत्वा श्रुतज्ञानत्वेन शास्त्र व्यवाहियत इति तद्वारेणास्य परमत्यायकत्वमुपपद्यत एवेत्याशयत्रतामृजूनां मतमाहकरादिधानां पर प्रत्यायकत्वेऽपीति।।
" भाष्यार्थसंमिश्रतया प्रभूत-न्यायोक्तिपूढार्थतया मतेश्च । श्रुतस्य चेतद्विवृतेरशक्य-प्ररूपणाया अपि नेमिसूरेः॥१॥ प्रभावतो दर्शनपूरिणेयं, वृत्तिः कृताऽत्र स्खलनां भ्रमोत्थास् । कृत्वा कृपा मययतुलां विशोध्य, जैर्वाच्यमाना प्रमुदं तनोतु ॥२॥” युग्मम् । इति श्रुतज्ञानव सभ्यतासमाप्तौ मतिश्रुतज्ञानवक्तव्यता परिसमाप्ता ॥१॥२०॥ उक्त श्रुतज्ञानमयावधिज्ञानवक्तव्यतायामाह । अत्राहेत्यादि-किमिति किं लक्षणं
सूत्रम् विविधोऽवधिः ॥ १॥ २१ ॥ (भाष्यम् ) भवप्रत्ययः क्षयोपशमनिमित्तश्च ॥
(यशो०टीका) द्वे विधे भेदौ यस्य द्विविधः । ते एव द्वे विधे दर्शयति भवप्रत्यय इत्यादिना । न च लक्षणे पृष्टे भेदकथनमन्याय्यम् , आम्रप्रश्ने कोविदारकथनवदिति वाच्यम्, भेदज्ञाने तदन्यतरत्वेन लक्षणसम्भव इत्यभिप्रायात् । भवो देवनारकान्यतरभवलक्षणः स प्रत्ययो निमित्त कारणं यस्य स तथा, अवश्य खुत्पन्नमात्रस्यैव देवस्य नारकस्य वाऽवधिरुभवतीत्येतावता स भवप्रत्यय इत्यभिधीयते, तद्भावे
अथावधिज्ञानादिवक्तव्यताप्राभाय एकविंशतितमस्त्रावतरणिकामाह-अथावधिज्ञानवक्तव्यातायामाह, अनाहत्यादि इति । ननु " खओयसमिआ ओहिनाणलद्धी" इत्यनुयोगदारवचनात् क्षायोपशमिकभावरूपमपविज्ञानम् , नारफमवश्च नरकगतिनामकर्मणो नारकायुपश्चोदयात् , देवभवश्व देवगतिनामकर्मणो देवभवायुपचोदयाद् भवतीति तापौदायिक