________________
तवायविवरणदार्थदीपिका । विशतिसू० टी०
१२५९: भावश्रुतयोरप्रस्तुतत्वेनाप्रस्तुताभिधानप्रसङ्गात् , एतेन श्रुतानुसारिस्वरहितशतमात्रपरिणामाविता मतिर्वएकसोशी, तज्जनित शब्दरूपं तु द्रव्यश्रुतं सुम्बसहशम्, रहितेत्यन्तेन भावश्रुत०यवच्छेद इति व्याख्यान. मप्यपहस्तितम् , श्रुतज्ञानेन सहैवास्य मतभेदस्य प्रक्रान्तत्वेन द्रव्यश्रुतस्याचिन्तनीयत्वात्, भतेर्धनित्वापरिणामेन हटान्तवैषम्यात्, न चैकं वचनमेतावन्तं विपाकमापन्नमितिवदत्र तत्परिणामे उपचार आश्रयणीयः, सति गत्यन्तरे तदाश्रयणानौचित्यादिति दिग् । अक्षरानक्षराम्यां भेदो यथा-इहाक्षरं द्विविध, द्रव्याक्षरं भावाक्षरं च । द्रव्याक्षरं पुस्तकादिन्यस्ताकारादिरूपम् , ताल्वादिकारणजन्यः शब्दो वा । एतच्च व्यज्यतेऽर्थोऽनेनेति व्यञ्जनाक्षरमप्युच्यते भावाक्षरमन्तःस्फुरदकारादिज्ञानरूपं, अकाराधाकारतेति यावत् , तत्र भतिज्ञानं भावाक्षरमाश्रित्य साक्षरमनक्षरं च भवेत् । इहादीनामभिलापजनकत्वेन साक्षरत्वात् , अवग्रहस्य च तद्वैपरीत्येन निरक्षरत्वात् , यजनाक्षरं पाश्रित्य तदनक्षरं, न हि मतिज्ञाने पुस्तकादिन्य'स्तमकारादिकं २०६ो का व्यञ्जनाक्षरं विद्यते, तस्य द्रव्यश्रुतत्वेन त्वाद् द्रव्यमतित्वेनाऽप्रसिद्धत्वात् ।
तज्ज्ञानमपीत्यर्थः। एतेनेत्यस्थापहस्तितमित्यनेना-यः । श्रुतानुसारिश०६परिणामान्त्रिता मतिविश्रुतमेवेति तनिषेधः श्रुतानुसारित्वरहितेति विशेषणेन कृत इत्याह-रहितत्यन्तेन भावश्रुतव्यवच्छेद इति । मतिज्ञानश्रुतज्ञानयोर्भेदस्य प्रक्रान्तत्वेन तमुपेक्ष्याप्रस्तुतस्य मतिज्ञानद्रव्यश्रुतयोभदस्य चिन्तया किमित्युत्तरयति-श्रुतज्ञानेन सहवास्येति । मतेलनित्वाऽपरिणामेन दृष्टान्तवैषम्यादिति-चल्काः सुम्वरूपेण परिणमन्ते, शुम्बपरिणामापन्नाना पकानामेव शुरूपत्वेनाभेदरूपत्वात् , न तु तद्वत् मतिशब्दरूपेण परिणमते, मतेनिरूपत्वेनात्मधर्मत्वम् , शब्दस्य च मूर्तत्वेन पुद्गलधर्मत्वमित्येवं तयोश्चेतनाचेतनधर्म त्वेन सादृश्येन परिणामपरिणामिभावाभावादिति दृष्टान्तदान्तिकोषम्यादुक्तदृष्टा-वान्मतिज्ञानद्रव्यश्रुतयोर्न भेदो युक्त इति भावः । भतिज्ञानादर्थान्तरभूतोऽपि २०६ः तत्प्रभवत्वात्त. न्मयः, यद्यस्मात् प्रभवति तत्तन्मयमिति व्याप्तेः, तथा च मतिज्ञानपरिणामरूपे शब्दे मतिः ज्ञानानात्मकेऽपि मतिगता ज्ञानमयतोपर्यते इति वल्कसुम्बदृष्टा साम्यात् भतिज्ञानद्रव्य श्रुतभेदः सेत्स्यतीति सदृष्टान्तमाशय निषेधति-न चैकं वचनामत्यादि । निषेधे हेतुमाहसति गत्यन्तरे तदाश्रयणानौचित्यादिति । मुख्यार्थवाधे सत्युपचारः फलवान्, स चात्र नास्ति, पूर्वोक्तीत्या मुख्यार्थस्य सद्भावादिति तदाश्रयणं न न्याय्यमिति भावः । तस्य द्रव्यश्रुतत्वेन रूढत्वाद् द्रव्यमतित्वेनाप्रसिद्धत्वादिति-अत्र तस्येत्यस्य द्रव्यश्रुतस्येत्यर्थः । नन्वत्र भावाक्षरेणावग्रहरूपं मतिज्ञानमनक्षरम् , ईहादिरूपं तत् साक्षरमित्येवं भावाक्षरेण भतिज्ञानं साक्षरानक्षरोभयरूपं प्रतिपादितम् , भावश्रुतज्ञानमपि द्रव्याक्षरेण भतिज्ञानवदनक्षर भावाक्षरेण साक्षर मित्येवं साक्षरानक्षरोभयरूपं प्रतिपादितं भवता, तथा च प्रत्येकं द्वयोरप्यक्षराऽनक्षररूपत्वेनोक्तत्वात् कस्तयोस्ताभ्यां विशेष इति चेत् , उच्यते, केरलं सामान्येन 'श्रुतं' इत्युक्तं तन्मध्ये द्रव्यश्रुतमपि लभ्यते इति कृत्वा तत्र द्रव्यश्रुतमाश्रित्य द्रव्याक्षर मस्ति, मतौ तु तन्नास्ति तस्या द्रव्यमतित्वेनाइलढत्त्वा । ३६मुक्तं भवति-पुस्तकादिन्यताकारा