________________
: २४० : तपार्थविवरणदार्थदीपिका । एकोनविंशतिसू० टी० प्रातिविधातकतयैव विरोधि, न तु स्वरूपसत्या, तथात्वे तस्मिन् सति क्वचिदपि कार्य न । स्यादिति परैरुच्यते, तत्तच्छम् , काचादिना न प्राप्तिविघातो भित्त्यादिना तु तद्विघात इत्यत्र परेपामिव काचादिना न चाक्षुषप्रतिवन्धो भित्त्यादिना तु तत्प्रतिबन्ध इत्यत्रास्माकं स्वभावस्यैव शरणी- .. करणीयत्वात् , तन्निर्वाहार्थं च यदि स्वप्राचीस्थपुरुषचाक्षुपे स्वप्रतीचीवृत्तित्वसम्बन्धेन तद्भित्यादेः प्रतिवन्धकत्वं करप्यते, तदा न गौरवं बाधकम् , प्रामाणिकत्वात् । यदि च व्यवहितमयोग्यत्वादेव न गृह्यते, तदापि न दोषः, व्यवधानाभावरूपनरन्तर्येण चनुायतानुकूलयोम्योत्पादस्य स्थूल सूत्र नयेनाश्रयणेऽस्माकं बाधकाभावात् । एनेनायोग्यत्वं हि न स्वरूपायोग्यत्वम् , स्थैर्यपक्षे तस्यैव कालान्तरे ग्रहात् । क्षणिफत्वपक्षेऽपि प्रत्यासन्नाना सहकारिणामेव तत्रातिशयजनक नाप्रत्यासन्नाना , प्रत्यासत्तिश्च बौद्धानां निरन्तरोत्वादोऽस्माकं व्ययोः संयोगस्तदुभयमपि कृष्णसारस्यार्थेन न सम्भवति, किन्तु तदाश्रितस्यन्द्रियस्यातीन्द्रियस्य गतिक्रमणेति निरस्तम् , तत्तद्व्यवधानामावकूटविशिष्टतयोत्पन्नस्यैव घटायोज्यत्वात् । किश्चानन्तचक्षुरवयवगतिसंयोगादिकल्पनापेक्षया तद्धेतुत्वेन कल्प्यमानस्य ततव्यवधानाभावकूटस्य
दिक हीति । तथात्वे स्वरूपसत्तया भिस्यादेविरोधित्वे । खप्राचीस्थ पुरुषचाक्षुप इति- . अत्र विषयत्वं प्रतिबध्यतावच्छेदकसम्बन्धो ज्ञेयः, उभयत्र च स्वपदेन तत्तरियादग्रहणम् , एवं विषयतासम्बन्धेन स्त्रप्रतीचीस्थपुरुषचाक्षुपप्रत्यक्षे स्वप्राचीवृत्तित्वसम्बन्धेन रवावाचीस्थपुरुषचाक्षुपे स्वोदीचीवृत्तित्वसम्बन्वेन च तत्तद्धित्यादीनां प्रतिवन्यकत्वं बोध्यम् । कल्प्यत इति-अस्माभिरिति शेषः। प्रामाणिकत्वादिति-उक्तप्रतिवध्यप्रतिवन्धकभावे तत्तत्पुरुषप्रवेशकृतगारवस्य फलबलकल्प्यत्येन प्रामाणिकत्वात् प्रामाणिकगौरवस्य चादोपत्वादिति भावः । एतेनेत्यस्य । निरस्तमित्य नेनान्वयः । स्वरूपायोग्यत्वमिति-फलजनकतावच्छेदक भावववमित्यर्थः । निषेये हेतुमाह -स्थैर्यपक्षे तस्यैव कालान्तरे ग्रहादिति-यदि व्यवहितार्थरस्वरूपाऽयोग्य- ... स्स्यात्तर्हि तस्य कदापि ग्रहो न स्यात्, भवति च व्यवधानाभावकाले ग्रह इति न स्वरूपाऽयोग्य-. . स्वलक्षणमयोग्यत्वं युक्तम् । ननु व्यवधानाभावकाले चाक्षुषप्रत्यक्षानुकूला योग्यताऽस्ति व्य धानदशायां च सा नास्तीति चेत् , तन्न सम्भवति, स्थिरस्यैकस्वभावत्वादिति भावः । अतिशयजनकत्वमिति-प्रत्यक्षकुर्वद्रपात्मकविषयजनकत्वमित्यर्थः । निरन्तरोत्पाद इतिनिरन्तरतत्तदेशोत्पादक्रमेण विपयदेशे नैरन्तर्येणोत्पाद इत्यर्थः । निरसने हेतुमाह - तत्तद्वयवधानाभापकूटविशिष्टतयोत्पन्नस्यैव घटादेयोग्यत्वादिति-तथा च भिस्यादिव्यवधानविशिष्टतयोत्पनस्य योग्यत्वाभावादेव न चाक्षुपप्रत्यक्षं, न तु चक्षुरिन्द्रियसन्निकर्माभावादिति न चक्षुस्संयोगसन्निकर्षस्य चाक्षुषप्रत्यक्ष प्रति हेतुत्वं, किन्तु तत्तद्विषयगतयोग्यताविशेषस्यैवेति भावः। तत्तद्वयवधानाभावकूटस्थति-एकं पुरुपं प्रति यदेव चाक्षुषप्रत्यक्ष०५वधानरूपं तदेवान्यपुरुष प्रति न तद्रूपमित्यनतिप्रसक्तस्यानुगतस्य 'व्यवधानत्यस्य चयन व्यवधानत्वावच्छिन्नप्रतियोगिताकसामान्यामावस्यापि दुर्वचत्वात् यत्प्रत्यक्षे यस्य यस्य व्यव..