________________
वार्थविवरणगूढार्थदीपिका । ऐ० सू० टी०
. १९९ : इन्द्रिय प्रत्यक्षमित्यनेन व्यवहारप्रत्यक्षता भणिता भवति । सोइंदियपचसमित्यादि । व्यवहारत इन्द्रियजन्यप्रत्यक्षमुक्त्या निश्चयतो नोइन्द्रियप्रत्यक्षमाहनोइन्दियपचसमिति-अत्र नोशदस्य सर्वनिषेधपरत्वात् नोइन्द्रियेण इन्द्रियाभावेनेन्द्रियप्रवृत्ति विनवात्ममात्रेण यत्प्रत्यक्ष प्रवर्तते तन्नोइन्द्रियं प्रत्यक्षम्-अत एवात्ममात्रजन्यज्ञानसं तल्लक्षणं पर्यवस्थति, तचावधिमनःपर्यायकेवलज्ञानाख्यम् , तस्यातीन्द्रियत्यादिति । आहननु " नोइन्दियपञ्चक्वं च " इत्यत्र नोइन्द्रियं मनः, तस्येन्द्रियैकदेशत्वात्, नोशब्दस्य चैकदेशवाचकत्वात् , ततश्च नोइन्द्रियं मनः, तन्निमित्तकं यत्प्रत्यक्षं तन्नोइन्द्रियप्रत्यक्षमिति, तदयुक्तम् , आगमार्थाऽपरिज्ञानात्, यदि पुनर्नोइन्द्रियं तत्र मनो व्याख्यायेत तदा नोइन्द्रियनिमित्त अत्यक्षमिति मनोनिमित्तमेवावध्यादिज्ञान प्रत्यक्षं स्यात् , तथा च सति मनापर्याप्त्याऽपर्याप्तस्य मनुष्यदेवदिवधिज्ञानं न स्यात् , मनसोऽभावात् , तचायुक्तम् , " चुएमित्ति जाणा" इति वचनेन सिद्धान्त तस्यावधिज्ञानामुपगमात् , किञ्च सिद्धानामपि प्रत्यक्षज्ञानामावस्यादित्यादिविशेषावश्यकभाष्यपञ्चनवतितमगाथाटीकोक्तः । अत्र " इंदियपचक्वं" इत्यनेनेन्द्रियजन्यं ज्ञान प्रत्यक्षं व्यवहारतो यथोक्त तथोपलक्षणन्यायेन मनोभवज्ञानमपि प्रत्यक्षं व्यवहारतो पाच्यम्, इन्द्रियलिङ्गादिकमन्तरेणैव यन्मनसा ज्ञानमुपजायते तत्प्रत्यक्षमिति लोकेऽपि ०५4हारराव, श्रोत्रेण शब्द, चक्षुपा-रूपं, साक्षात्करोमीत्यादिवन्मनसा सुखदुःखादिकं साक्षात्करो. मीत्यनुव्यवसायात् , अत एव भगवच्छीवादिदेवसूरयः प्रमाणनयतत्वालोकालङ्कारे "-तद् द्विप्रकारम् सांव्यवहारिक पारमार्थिकञ्च" २-४ । तत्राचं द्विविधमिन्द्रियनिवन्धनमनिन्द्रियनिवन्धनञ्च-२-५ । इति सूत्रद्वयन सांव्यवहारिकप्रत्यक्षस्य-भेदद्वयं प्राहुः, विशेषावश्यकभाष्येऽपि-" इंदियमणोभयं जं तं संपवहारपचख" इत्युक्तमिति । अकलकोप्याह-"विविध प्रत्यक्षज्ञान-सांव्यवहारिक मुख्यं च, तत्र सांव्यवहारिकमिन्द्रियानिन्द्रियप्रभवं, मुख्यमनीन्द्रियज्ञानम्" - इति-। अस्यायं भावः-संव्यवहारप्रयोजनकत्वात् तत्प्रत्यक्षतया व्यवहियते स्पष्टतया चोपचते, न तु वस्तुगत्या प्रत्यक्षम् , अक्षमात्मानं प्रत्यगतत्वात् , साक्षादात्मसम्पायमेव प्रत्यक्षं, तदेव 'च पारमार्यिकम् , तवावध्यादिकमवेत्याशयेन संव्यवहारशदोपदर्शनेन सांव्यवहारिकाख्यः प्रत्यक्षप्रथमभेद उपदर्शित इति । इन्द्रियप्रत्यक्षमित्यनेन व्यवहार प्रत्यक्षता मणितेति-ननु कथमिदं सूत्रं सांव्यवहारिकप्रत्यक्षमाश्रित्यैव प्रवृत्तमित्यवसयित इति चेत् , उच्यते, "-परोक्खं दुविहं पण्णत्तं तं जहा-आमिणिवोहियनाणपरोक्समित्याधुत्तरसूत्रे" श्रोत्रेन्द्रियाचा. -श्रितापग्रहादीनां निश्चयनयतः परोक्षत्वेन प्रतिपादनाद, तस्मानन्धामुत्तरसूत्र , इन्द्रियाश्रितज्ञानस्य परोक्षत्वेनाभिधानादिन्द्रियप्रत्यक्षमित्यनेनेन्द्रियाश्रितं ज्ञान-व्यवहारतः प्रत्यक्षमुक्त न परमार्थतः, परमार्थतत्वध्यादिज्ञानत्रयमेव प्रत्यक्षं तद्वदत्रापि ज्ञेयमिति । नन्वनुमानरत्यादेः • कस्मिन् ज्ञानेऽ.वि इति चेत् , उच्यते, ऐकान्तिकपरोक्षात्मकमतिज्ञान एपेति । तथा चैका ति: परोक्षमनुमानादिकमेव, एकान्ततः प्रत्यक्षमवध्यात्रिय, इन्द्रियमनोभय ज्ञान लेकान्ततो न