________________
: १७० :
तवार्थविवरणगूढार्थदीपिका । स० सू० टी० धिगमौ तादृशीं रुचि जनयतः, किन्तु निसर्गाधिगमाभ्यां क्षयोपशमादयः कर्मणां जन्यन्ते, ततः क्षयोपशमादेः सन्यदर्शनं . सम्भवति, तावपि च निसधिगमी कर्मणां क्षयोपशमादेरेव भवतः, ततस्ताभ्यामुत्तरोत्तरक्षयोपशम विशुद्ध विशुद्धतरमापदियमानाभ्यां यश प्रतिविशिष्टः क्षयोपशम आपादितो भवति तद। तस्मात् सम्यग्दर्शनभुत्पद्यत इति । तत्र निसर्गः पूर्वोक्त पर्यायशब्देनेत्यर्थः । अधिगम वभ्यर्हितत्वात्पुनर्लक्षयति-अधिगमस्तु सम्या व्यायाम इति, गुरूपदिष्टा दर्शनापारक्रियेत्यर्थः । उभयमपीति-उभयं निसर्गाधिगमसम्यक्त्वलक्षणम्, तदावरणीयस्थ, रुचिरूपज्ञानावरणीयस्य नान्तरीयकतयाऽनन्तानुबन्ध्यादेरिति भावितं प्राक, तस्यैव क्षयादित्रयं सङ्गच्छते, तेनैतनिहेतुकमुत्पद्यते। तुर्यद्वार परामृशति-अधिकरणं त्रिविधमित्यादि । एतच प्रायः स्वामित्वद्वारपद् व्याख्येयम् । तत्र ' यदात्मसंयोगनेत्याधुक्त तत्स्थानेऽत्रात्मसन्निधानेनेलादि वयम् । संयोगः सम्बन्धः, सनिधानमाधारतेति विवेकः । ननु यधुत्पादकत्वेनाजीवे प्रतिमादौ सम्यग्दर्शनशानचारित्राण्युच्यन्ते तदा दण्डे घट इत्याद्यपि स्यादिति चेत्, न, असाधारण्येन परिहारादधिकरणानुयोगदारव्युत्पन्न प्रतीष्टापत्तेर्वा ॥ पञ्चमद्वार परामशति-स्थितिरिति । सम्यग्दर्शनमुत्पन्न सकियन्तं कालमपतिष्ठत इति प्रश्नः । उत्पत्तिमत् किञ्चित् सादि सपर्यवसानं दृष्टम्, मनुष्यत्वादिवत् , किञ्चित् साद्यपर्यवसान दृष्टं, सिद्धत्वादिवत् । तदिदं कथ स्यादिति प्रष्टुर्मूढः संशयः । आचार्योऽपि तदभिप्रायानुरूपमुत्तरमाह-तस्यदृष्टिविविवेत्यादि । सम्यग्दृष्टिः शोभना दृष्टिः । सा चैकापायसद्व्यवर्तिनी,
तदा तस्मात् सभ्यग्दर्शनमुत्पद्यत इति । उक्तवाऽवश्यकत्रे-" सत्तहं पयंडीणं, अमितरओ उ कोडिकोडीणं । काऊण सागराणं, जइ लहइ चउण्हमध्यरं ।।११९३॥” इति, एतच्च प्रागेव विवेचितमिति । तस्यैवेति-अनन्तानुवन्ध्यादेरेवेत्यर्थः, तेनैतत्विहेतुकमुत्पद्यत इति । अन्नानन्तानुबन्ध्यादिसप्तप्रकृतिक्षयक्षयोपशमोपशमरूपत्रिविधपरनिमित्तविधया सम्पदशनस्योत्पादात् क्षायिकादित्रिविधत्वं ज्ञेयम्, न तु स्वनिमित्तापेक्षया, एतच्च प्रागेव भावितमिति । यचुत्पादकत्वेनेति-निमित्तकारणविधयेति शेपः । निषेधे हेतुमाह-असाधारण्येन परिहारादिति-यदसाधारणमुत्पादकं तदेवाऽऽधारतया विवक्षितं भवतीति प्रेतिमादिकं दृष्ट्वैव केषाविरसम्यग्दर्शनोत्पत्तेः सम्यग्दर्शन प्रति प्रतिमादिक भवत्यसाधारणमिति तत्र सम्यग्दर्शनामिति व्यपदेशः सम्भवति, न तु दण्डे घट इति, तत्र हेतुरसाधारण्येन परिहारादिति । भवतु वा दण्डे ५८ इति प्रयोगः, का नो हानिरित्याशयन समाधानान्तरमाह-अधिकरणेति। शोभनेतिअविसरीतेत्यर्थः, अर्थानामिति गम्यते । अपायसदद्रव्यवर्तिनीति-अपायो निश्चयज्ञान मतिज्ञानांशा, सद्रव्याणि पुनः शोभनानि प्रशस्तत्वात विद्यमानानि वा द्रव्याणि मिथ्यादर्शनदलिकानि अध्यवसायविशोधितानि सम्यग्दर्शनतयाऽऽपादितपरिणामानि, अपायश्च सद्पाणि च अपायसद्व्याणि ताम्यां सह वर्तिनीत्यर्थः, यावत्कालं तदुभयं तावत्कालवतिनीति यावत् । अयम्भावः-मतिज्ञानस्यैव निश्चयज्ञानात्मको योऽपायांशः, यानि च विशुद्धाध्यवसायत