________________
तत्वार्थविवरणगृहाथदीपिका । प० ० टी०
: १५९ :
तदेकदेशवोधकतापर्याप्त्यधिकरणं तदितरादूषकं नयः, तदितरदूपकं तु दुर्णय इत्ययमेव लक्षणविभागो युक्तः । लौकिकलोकोत्तरप्रामाण्याप्रामाण्याभ्यां च नयस्योभयरूपत्वमभिप्रेत्य " णिययत्रयणिञ्जसचा " इत्यादि.
अत्रोक्तप्रमाणलक्षणे पर्याप्तिनिवेशात् सप्तभङ्गयात्मक महावाक्यैकदेशे प्रत्येकमङ्गे नातिव्याप्तिः, पर्याप्तिसम्बन्धेन तादृशवोधकताच त्वाभावात् । तदेकदेशेत्यादि - सप्तधर्मात्मकस्येकदेशबोधकता पर्याप्त्यधिकरणत्वे सति तदितराद्रूपकं वाक्यं नय इत्यर्थः । अत्रापि पर्याप्तिनिवेशाल प्रमाणवाक्ये नातिव्याप्तिः, तत्र पर्याप्तिसम्बन्धेन सप्तधर्मात्मकवस्त्वेकदेशबोधकताधिकरणत्वाभावात् । तदितरादूषकत्वविशेषणोपादानाच्च दुर्नये नातिव्याप्तिः । निरुक्तलक्षण एव तदितरादूपकमिति स्थाने तदितरदूषकमित्यस्योपादाने दुर्नयलक्षणमित्याशयेनाह तदितरदूषकमित्यादि । उक्ते दुर्नयलक्षणे सत्यन्तमानन्तु सुनयेऽतिव्याप्तमिति विशेष्यविधया तदितरदूपकमित्युक्तमिति । अत्र पूर्वोक्तसुनयलक्षणे तदेकदेशबोधकतेत्युक्त्या स्यादस्तीत्यादि सप्तभङ्गा यत्र नोच्चार्यन्ते तत्र स्यादस्तीत्याद्येववाक्येऽपि नयरूपे उक्तनयलक्षणसङ्गमनाभोक्ताव्याप्तिरिति सूचितम् । अत एवेत्यञ्च तदन्तर्भूतस्य तद्वहिर्भूतस्य वाऽन्यतरमङ्गस्य प्रदेशपरमाणुदृष्टान्तेन नयवाक्यत्वमेवेत्यर्थतो लभ्यत इति नयोपदेशवृत्तौ तातपाद न्यायाचार्य श्रीयशो विजयोपाध्यायैरुक्तं सङ्गच्छत इति । लौकिक लोकोत्तरमामाण्याप्रामाण्यास्यामितिसुनयात्मकवोधस्य लौकिकप्रवृत्तिमात्रौपयिकं लौकिकप्रामाण्यम्, इतरांशसापेक्षस्य तद्ग्राह्यवस्त्वेकांशस्य सत्यरूपतया तद्वति धर्मिणि तत्प्रकारकज्ञानरूपत्वात्, सिद्धा-विचारौपयिकस्य लोकोत्तरप्रामाण्यस्याभावश्च, प्रमाणरूपसतभङ्गयात्मक महावाक्यजन्य सप्तधर्मप्रकारकाखण्ड समू हालम्बनशाब्दबोधरूपत्वाभावाद, ताभ्यामित्यर्थः । उभयरूपत्यमिति प्रामाण्याप्रामाण्यो भयरूपत्वमित्यर्थः । णियय क्यणिजसचा इत्यादि, “णिययत्रयणिञ्जसच्चा, सन्त्रणया परवियालणे मोहा | ते पुणण दिट्ठसमओ, विभयह सचे व अलिए वा | १|" गा० १-२८/ इति सम्मतिमता सम्पूर्णगाथा । अस्या अयमर्थः - निजकवचनीये स्वांश परिच्छेद्ये सत्याः सम्यग्ज्ञानरूपा सर्व एव नयाः सङ्ग्रहादयः, गजनिमीलिकान्यायेन तेषां नयानां स्वाशेवर रांशाऽप्रतिक्षेपित्वेन स्वविपयस्य सत्यरूपत्वेन तद्वभिष्ठविशेष्यतानिरूपिततभिष्ठप्रकारतानिरूपकत्वात्तेषाम्, ननु किमेकान्ततः सङ्ग्रहादयस्सर्वे नया उक्तरूपा एवेत्याशङ्कायां तत्रानेकान्तत्वप्रतिपादनायाह-' पर वियालणे मोहा' इति परविचालने परविपयत्खनने, स्वविषयमात्रस्यैव सत्यरूपतया व्यवस्थापनेन परनयविपयस्वासत्यत्वेन ज्ञापने सतीति यावत् मुझतीति मोहा मिथ्याप्रत्यया विपरीतज्ञानरूपाः, परनयत्रियस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात् परस्पराऽविनाभावित्वेन तदभावे स्वविपयस्यापि सत्यत्वनाऽव्यवस्थितः, तस्मात् तानेव नयान् पुनश्शब्दस्यावचारणार्थत्वाद् नेति प्रतिषेधो विभ जनक्रियायाः, इष्टसमयः सविधिस्वगुर्वभ्यस्तार्हसिद्धान्ततया निर्णीतानेकान्तवचः सत्यान् वा इलीका वा न विभजते, अपि वितरनयविपयसव्यपेक्षतया 'अस्त्येव द्रव्यार्थतः' इत्येवं भवनया