________________
तत्वार्थविवरणगुढार्थदीपिका । पं० सू० टी०
: १३७ :
कृतिवदिति । यथेन्द्रादीनां प्रतिकृती रचितेन्द्रादिव्यपदेशं लभते, एवं जीवस्य काष्ठादिषु प्रतिकृतिः कृता स्थापनाजीव इत्यभिधीयत इत्यर्थः ॥ द्रव्यजीवनिक्षेपमाह-द्रव्यजीव इति उच्यत इत्यनेन सम्बन्धः । अनादिपारिणामिक भावोऽर्थाज्जीवत्वं तेन युक्तो गुणपर्यायैर्वियुतः ( : ), वास्तवतथात्वासम्भवादाह-प्रज्ञास्यापितः - प्रज्ञया बुद्ध्या कल्पितः । वैज्ञानिकसम्बन्धेन गुणपर्यायवियोगवान् गुणपर्यायवियुक्तत्वप्रकारक बुद्धिविषयो वेति यावत् तादृशो जीवो द्रव्यजीव इत्युच्यत इति वाच्यार्थः । इतिरवास्तवत्वद्योतकः । द्रव्यजीवादिनिक्षेपस्थले द्रव्यपढ प्रवृत्तिनिमित्तं गुणपर्यायवियुक्तत्वप्रकारक बुद्धिविषयत्वं वैज्ञानिकसम्बन्धेन तद्वियोगवत्त्वं चेति निर्गलितोऽर्थः । ननु सता गुणपर्यायाणां बुद्ध्या नापनयः शक्यः कर्तुम् । यतो न ज्ञानायचाऽर्थपरिणतिः, ' अर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्ति' इतिवस्तुस्थितिमभिप्रेत्याह-शून्योऽयं भङ्गः । शून्य इति न
सद्भावान्नातिव्याप्तिरिति । निक्षेपभेदप्रस्तावे द्रव्यजीव इति यः प्राक्तृतीयभेद उपन्यस्तस्तन्निरूपणायाह- द्रव्यजीवनिक्षेपलक्षणमाहेनि । गुण पर्यायैरिति-स्वानुगतस्वभावसिद्ध चैतन्यसुखादिभिस्सहभाविभिर्गुगैस्स्वाननुगततचत्कालोत्पन्नतत्तज्ज्ञानवैषयिक सुख दुःखहर्प शोकादिभिः क्रमभाविभिः पर्यायैश्चेत्यर्थः । ननु न कोऽपि कदाऽप्यात्मा ज्ञानाद्यशेषगुणपर्यायविनिर्मुक्तो दृश्यते, निगोदजीवानामप्यक्षरानन्ततमो ज्ञानभागो नित्योद्घाटित इति सिद्धान्ते प्रतिपादनात् । यदाह-"सव्यजीवाणं पि य णं अक्खरस्स अनंतमो भागो, निच्चुग्धाडिओ चिट्ठ, सोविअ जइ आवरिजा तेणं जीवो अजीवत्तणं पाविजा " इति । अन्यथा गुणपर्यायवद् द्रव्यमिति लक्षणे सर्वकालनियतसच्वलक्षणनित्ययोगे मतुव्विधानादुक्तलक्षणस्यैवाऽनुपपत्तिस्यादित्याशङ्कायामाह-वास्तवतथात्वासम्भवादाह-प्रज्ञास्थापित इति । तदर्थमाह-प्रज्ञयेति । तस्यापि तात्पर्यार्थमाह-वैज्ञानिकसम्बन्धेनेत्यादि । अर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्ति' इति - अर्थो जीवादिवस्तु येन येन पर्यायेण विपरिणमते यं यं पर्याय परिणाम - मासादयति तत्तत्पययिविशिष्टतयैवार्थज्ञानं भवति, तथा च गुणपर्यायानुगामितयैवात्मद्रव्यस्य सर्वदा प्रतीतेर्गुणपर्यायवियुक्तस्यात्मनोऽभावात्तथा बुद्धिरेवासम्भविनीति न तया द्रव्यजीवस्थापना युक्तेत्यर्थः । यद्वस्तु भूतकाले विवक्षितपर्यायरूपेण परिणतं तद्वस्तु भूतपर्यायकारणत्वावर्तमानकाले द्रव्यरूपमुच्यते, अनुभूतदेवस्त्रपर्यायमनुष्यो द्रव्येन्द्रवदनुभूतधृताधारत्वपर्यायरिक्तघृतवटवच, यच्च वस्तु भविष्यत्काले विवक्षितपर्यायरूपेण परिणंस्यति तद्व भविष्यत्ययकारणत्वाद्वर्तमानकाल विद्यमानं सद्भविष्यत्पर्यायापेक्षया द्रव्यरूपमुच्यते " मिउपिंडो दन्त्रघडो सुसागो तह य दव्यसाहुत्ति | साहू य दव्वदेवो एमाइ सुए जओ भणिअं ||१||" इति सिद्धान्तवचनादनु भविष्यत्साधुत्वपर्याया श्राद्धे द्रव्यसाधुत्ववत्, अनुभविष्पदेवेन्द्रपर्याया साधौ द्रव्येन्द्रत्ववदनु भविष्यद्धृताधारत्व पर्यायघृतघटवञ्च यद्वस्तु भूतभावस्य
34..