________________
तत्वार्थविवरण गूढार्थदीपिका | पं० सू० टी०
3
,
,
-
नामस्थापनाद्रव्यभावेन्द्रा इन्द्रपदवाच्या इति निक्षेपसामान्यवचने वर्त्तत इति लक्षणसामान्यसम्भवेऽपि नामादिप्रत्येकनिक्षेपवचने न च वर्तत इति नोक्तलक्षणस्य सम्भवः, नामेन्द्र इन्द्रपदवाच्य इति नामनिक्षेपवचनस्य स्थापनेन्द्र इन्द्रपदवाच्य इति स्थापनानिक्षेपवचनस्य च द्रव्येन्द्र इन्द्रपदवाच्य इति द्रव्यनिक्षेपवचनस्य च भावेन्द्र इन्द्रपदवाच्य इति भावनिक्षेपवचनस्य च प्रत्येकं नामेन्द्रत्वस्थापनेन्द्र त्वादिप्रतिनियतधर्मावच्छिन्ननिरूपित प्रतिनियतशक्तिबोधकत्वनैकपदस्याऽनेकशक्तिबोधकत्वाभावादिति चेत्, मैवम् शक्यतावच्छे दकभेदेनैकस्य शब्दस्यानेकशक्तिप्रदर्शकवचनविपयताव्यापक विषयताकवचनत्वस्य निक्षेपलक्षणत्वे दोषाभावात् अत्र चोचरवचने किञ्चिदुर्भावच्छिन्ननिरूपितशक्तिप्रतिपादकत्वं विशेषणं देयम् तेन नामघट इत्यस्य घटपदस्येत्यस्य वाच्य इत्यादेश्व विशकलितस्य न निक्षेपत्वप्रसङ्ग इति । अथवा नामनिक्षेपादयः स्वरूपेणाऽपि निरुक्तलक्षणयोगिनो भवन्त्येव तथाहि -नामेन्द्र इन्द्रपदवाच्य इति नामनिक्षेपे नामेन्द्र त्वस्य प्रवृत्तिनिमित्तत्वं प्रतीयते तच्च नैकम्, यत इन्द्र इति इकारोत्तरनकारोत्तरदकारोत्तररकारोत्तरात्वरूपानुपूर्वीविशिष्टं नामस्वरूपं नामेन्द्रो, गोपालदार-: कोsपि चेन्द्रनाम्ना सङ्केतितस्तथा, तयोथ नैकासाधारणधर्मयोग इति शक्यतावच्छेदकभेद आवश्यक इति | स्थापनायास्सद्भूतासद्भूतभेदेन द्विविधत्वात् सतेन्द्र स्थापनागतो सद्भूतेन्द्र स्थापनागतश्च धर्मो भिन्न एवेति तलक्षणशक्यतावच्छेदकभेदाद्भवत्येव सामान्यलक्षण -- सङ्गतिः, यो जीवो मनुष्यस्सन्निन्द्रोऽभूद् भविष्यति चेति भूतभविष्यदिन्द्रपर्यायकारणत्वाद् यथा द्रव्येन्द्ररतथेन्द्रपदार्थज्ञस्तत्राऽनुपयुक्तोऽपि द्रव्येन्द्र:, तथैव योऽपि इन्द्रस्य गुणान् परस्मै परिकथयति, परमनुपयुक्तः सोऽपि द्रव्येन्द्रः । " अणुवओगो द० " इति वचनात् एतदमिप्रायेणैव वृहत्कल्पमाष्येऽप्युक्तम् - "दव्वे पुण तल्लद्धी, जस्सातीता भविस्सते वा वि । जोवा वि अणुवत्ता, इंदस्स गुणे परिह ||१४|| " इति, तथेन्द्रस्योत्तरोत्तरभावेन्द्र पर्यायकारणत्वात्पूर्वपूर्वी द्रव्येन्द्रस्तदनुगामीन्द्रव्यक्तिरपि द्रव्येन्द्रः, द्रवति तांस्तान् पर्यायान् गच्छतीति द्रव्यमिति व्युत्पच्या पर्यायपरम्परानुगता व्यक्तिर्द्रव्यम्, तदेवोर्च्चतासामान्यमित्यु तासामान्यरूपत्वेनानुगामिन्या द्रव्यव्यक्तेर्द्रव्येन्द्रत्वात् । तत्र सर्वत्र नैकं द्रव्येन्द्रत्वमित्यत्रापि प्रवृत्तिनिमित्तभेदादुक्तसामान्यलक्षणसङ्गतिः भावेन्द्रोऽभ्यागमतो नोआगमत इति द्विविधः, तत्राऽगमत इन्द्रपदार्थज्ञस्तत्रोपयुक्तो भावेन्द्रः उपयोगो भावनिक्षेप इति वचनात् । “जहिंदनाणोओगओ तम्मयत्तगं होइ " || ३२५ ॥ इति महाभाष्यवचनाच्च । तत्र तन्मयत्वमित्यस्य परमैश्वर्याध भावेन्द्रियत्वं भवति भावेन्द्र एवायं व्यपदिश्यत इत्यर्थः । नोआगमतथ “ इदि परमैश्वर्ये " इति वचनात् परमैश्वर्यादिगुणगणालङ्कृतः पुरन्दरो भावेन्द्रः परमैश्वर्यवान् साक्षादिन्द्रनामगोत्राणि कर्माणि वेदयन् इन्द्रपदवाच्यो भावेन्द्र इति भावः । न च तदुभयसाधारणं, भावेन्द्रत्वमेकं प्रवृतिनिमित्तं सम्भवतीति श्रवृचिनिमित्त भेदादाऽप्युक्तसामान्यलक्षणसङ्गतिरिति । नं च घटपटादिवस्तुमात्रस निक्षेप चतुष्ट्यरूपत्वे तद्वाचकपटपटादिशब्दस्य नामघटस्थ
46
: १२८ :