________________
: :
सत्वाविवरणदार्थदीपिका रम्भारम्भाख्या । प्रत्येक पुनः पायादिभेदेनानेकविधा । तंत्र प्राणातिपातादिसंकल्पावेशः सभा, तत्साधनसन्निपातजनितपरितापनादिलक्षणः समारम्भः, प्राणानिपानादिक्रियानिवृतिरारम्भः । तदुक्तसंरम्भः सकपायः, परितापनया भवेत्समारम्भः । आरम्भः प्राणिवधः, त्रिविधो योग ततो ज्ञेयः ॥ १॥ अन्यत्र च । “ संकल्पो संरंभो, परितावकरो भवे समारभो । आरम्भो उदवओ,' सुद्धनबाण च सव्वेसि ।। १ ॥ " अन्ये च प्राणव्यपरोपणादिपु प्रमादवतः प्रयत्नावेशः संरम्भः, साधनसमभ्यासीकरण समारम्भः, प्रक्रम आरम्भ इत्याचक्षते । एते चोभयभवविरावकाः सौकरिकमत्स्यवन्धादयोऽबसेयाः । ते हि प्रणटधर्मसंज्ञाः अज्ञातशुभलेश्या सर्वनिन्दिताचरणसादराः शिष्टजनतिर तिजन्मानः स्फुटितकरचरणशिरोरुहा विकृतारणाः क्षुत्पिपासाशीतोप्गझझावाताभिभूता गिरिकन्दराज्यनिईरादिसोपद्रुतस्थानपर्यटनशीला इहापि सापायं जिजीविषयोऽभुत्र च पापानुबन्धिपापकर्मरिता नरकेथूकटयातनाभाजो भवन्ति ॥ द्वितीय पुरुषमाह-' इत्यादि ' इह अरिगञ्जन्मनि फलं प्रयोजनं यस्येताह फलं कर्मेत्युनुवर्तते । एवकारश्च परलोकफलव्यवच्छेदार्थः, तेन न विमध्यमेऽतिप्रसङ्गः । ततश्च हि कलमात्रोद्देश्यकप्रवृत्तिमत्त्वमधमत्वलक्षणं सूचितम् । कर्मण उभयभवफलत्वेऽपि इह फलकत्वमानगोचरा बुद्धि पूर्वस्माद्विशेषं परलोकमनोरथनिवृत्तिं च तुशब्दो दर्शयति । एते राधमाः वार्हस्पत्यमतानुकविधेति । अयमावः कायवाङ्मनाभेदेन योगविध्यात्तद्विशिष्टस्सर भोऽपि त्रिविधायथाकायसंरम्भो वाक्संरम्भो मनस्सरम्भ इति, एवं समारम्भोऽपि, आर भोऽपि च त्रिविध इति नत्र भेदाः। नवभेदेष्वप्येककभेदः कृतकारितानुमतविशेषात् त्रिविधो भवति, तद्यथा-कृतकायसंरम्भः कारितकायसंभोऽनुमतकायसंरम्भ इति भेदत्रयं, एवं वाचा मनसा च त्रित्रिभेद इति संरम्भो नवविधः १ एवं समारम्भोऽप्यार भोऽपि च नवविधः, सन्मीलने सप्तविशतिभेदाः । तन्मध्येऽप्येकैकभेदः कपायाणां चतुर्भेदात्तद्विशिष्टश्चतुर्विधस्तद्यथा क्रोधकृतकायसंरम्भो मानकृतकायसंरभो मायाकृतकायसंरम्भो लोभकृतकायसंरभ इति चत्वारः कृतवि- । शिष्टभेदाः, एवं क्रोधकारितकायसंरम्भ इत्यादिकारितविशिष्टभेदश्चित्वारः, एवं क्रोधानुमतकायसंरम्भ इत्यायनुमतविशिष्टभेदेन चत्वारः, सर्वसम्मीलने कायसंस्मस्य द्वादश भेदाः, एवं वाङ्मनससंरम्भयोरपि द्वादश द्वादश भेदाः, द्वादशानां त्रिभिर्गुणने सरमसर्वभेदा पत्रिंशत् , एवमेव समारम्भस्याऽऽरम्भस्य च पट्त्रिंशद् पत्रिंशद्भेदा ज्ञेयाः, सर्वसम्मिन्डीकरणे त्रयाणां भेदा अष्टोत्तरशतं भवतीत्याबनेकप्रकारेणानेकविधत्वं ज्ञेयमिति भावः । संक.५:-पृथिवीकायादिविनाशानुकूलसंकल्पा-परितावकरो पृथिवीकायादिपरितापकरः । उहवओपृथिव्याधुपद्रवलक्षणः । ३६ फलमात्रोद्देश्यकप्रवृत्तिमत्वमधमत्वलक्षणमिति । उभय भवफलकेऽपि कर्मणि अस्मिन्नेव भव एतत्कर्म में फलप्रदं भवविति भ्रान्तबुद्धिजन्या या पारत्रिकफलानुद्देश्यकत्वविशिष्टैहिकफलोद्देश्यकसंरम्भसमारभार मान्यतानुकूलप्रवृत्तिस्तद्वत्वमधमत्वलक्षणमित्यर्थः । उभयफलकमापि कमैतद्भवफलकमेवेत्याकारकोभयभवफलजनकसविशिष्टकर्मत्वावच्छिन्नविशेषताकतवभिन्नभवफलजनकत्वाभावनिष्ठप्रकारताकर- सत्यत