________________
સેવાવિવર્તુહર્થિીe त्यल्पमिदभुच्यते दर्शनात्पूर्व ज्ञानमज्ञानमेवेति वाच्यम् , 'अप्रामाण्यज्ञानानकिन्दितज्ञानविषयप्रामाण्यस्यैव शुद्धिवेन श्रुतमधीयानानामपि दर्शनविकलानां प्रामाण्यालिजितेऽपि श्रौते ज्ञाने इदं प्रमा न .. वेत्यप्रामाण्यज्ञानविषयत्वलक्षणमलकाप्येनो कलक्षणशुद्धेरभावात् , तादृशशुद्धिविशिष्टज्ञानजनने च श्रुतस्य । सम्यग्दर्शनलक्षणाशयशुद्धिरपि भेषजस्येव दोपप्रशमने सहकारिणीति उक्तसहकारिवैकल्यापूर्व ताशज्ञानाजननेऽपि तत्सहकारिसम्पत्तौ तज्जननेन श्रुतस्य प्रामाण्यं निर्वहत्येव, न च श्रुताध्ययनान्यथानुपपत्त्या रुचिलक्षणदर्शनशुद्धेरपि पूर्व सत्वमिति वाच्यम्, अभव्यानां तदन्तरेणाप्यध्ययनदर्शनात् , न , च शुद्धस्याशुद्धस्य वा ज्ञानस्य दर्शनापूर्वमेव श्रुतेन जनितत्वात् कृतस्य करणायोगेन दर्शनापेक्षा तत्र श्रुतस्य व्यर्थेति वाच्यम्, जनानां सदसरकार्यवादराद्धान्तेऽशुद्धात्मना पूर्व कृतस्थापि ज्ञानस्य सन्यज्ञानात्मना परिणमनलक्षणकरणाभ्युपगमात् , अत एव सम्यग्दर्शनाच्छुद्धमिति पञ्चमीपझोऽप्युपपत्तिपद्धतिमियत्येव, निसर्गसम्यग्दर्शनाधिगमसम्यग्दर्शनयोरुभयसाधारणेन सम्यग्दर्शनत्वेनेकशक्तिमत्त्वेन । वा शुद्धिं प्रति कारणत्वेन स्वयंसम्बुद्धादिषु निसर्गसम्यग्दर्शनस्य शुद्धज्ञानात्पूर्व सत्येन न व्यतिरेकव्यभिचारावकाशः, न च निसर्गसम्यग्दर्शनादधिगमसम्यादर्शनं विजातीयमेव, अन्यथा निसर्गाभावेऽधिगमसभ्य
नोत्तरयति-अप्रामाण्यज्ञानानास्कन्दितज्ञानेत्यादि । अत्रेदमपधेयम् यच्च सुगुरुनिरपे- . क्षाणां मिथ्याधीनां पांचितस्त्वपक्षनिबद्धोद्धरानुबन्धानां स्वतरिसद्धान्तावलोकनतो मिथ्याज्ञानं जायते, तदपि न सम्यक् श्रुतस्य प्रमात्मज्ञानजननासामयदोपवलादप्रामाण्यदोपबलाद्वा . किन्तु पूर्वभवीयमिथ्यावासनाजनिताऽयथार्थसङ्कतानुसन्धानसहितमिथ्यात्वदोपप्रावल्यादेवेति . तज्ज्ञानमज्ञानमेव । उक्तदोपविगमन सम्यग्दर्शनाशयशुद्धौ तत्सहकृतं श्रुतमप्रामाण्यज्ञानाना- .. रकन्दितज्ञानविषयप्रामाण्यविशिष्ट्यथार्थज्ञानं जनयति, न च पश्चात्तत्र तद्गते स्वतः प्रामाण्यज्ञाने चेदं ज्ञानं प्रमा न वेति संशयो न वेदं ज्ञानमप्रमात्मकमेवेति विपर्ययज्ञानं भवतीति तत्राऽपि श्रुतस्य प्रामाण्यं निहत्येवेति । तदन्तरेणोति । रुचिलक्षणसम्यग्दर्शनमा तरणेत्यर्थः । विजातीयकारणादेव विजातीय कार्य भवतीति निसर्गस्याऽधिगमस्य च जात्येन निसगापजायमाना सम्यग्दर्शनादविगमोपजायमानं सम्यग्दर्शनं विजातीयमेवेति नोभयसम्यग्दर्शनगतं सम्यग्दर्शनत्वमनुगतमिति न तद्रपेण शुद्धि प्रति कारणत्वं किन्तु विभिन्नरूपेणैवैत्यधिगमसम्यग्दर्शनत्वेन कारणीभूतस्याऽधिगमसम्यग्दर्शनस्य स्वयं सम्बुद्धादावभावेऽपि शुद्धज्ञानरूपकार्यसद्भावेन व्यतिरेकव्यभिचार इत्यभिप्रायकं यदाऽऽशक्तिं तत्परिहारायाऽऽह- .. निसर्गसम्यादर्शनाधिगमसम्य दर्शनयोरुभयसाधारणेनेति । ननु यदि सम्यग्दर्शनत्यमुभयसाधारणं स्यात्तदा तद्रपेण शुद्धि प्रति कारणत्वं स्यात् ? न चैवं, यतो निसर्गाविगमसम्यग्दर्शनोमयस्य सम्यग्दर्शनत्वेन सजातीयत्वे तदवच्छिन प्रति निसर्गाधिगमयोः कारणत्वं न स्यात्, निसर्गरूपकारणाभावेऽपि सम्यग्दर्शनत्वावच्छिन्नस्याऽधिगमसम्यग्दर्शनस्याऽधिगमरूपकारणाभावेऽपि च निसर्गसम्यग्दर्शनस्योत्पादन व्यतिरेकव्यभिचारादि- .