________________
चतुर्थ अध्याय
.. चतुर्थ पाद समन्वयेनाविरोधात् साधनब्रह्मविद् यदि । .. तस्याग्रिमव्यवस्था या सा च तुर्ये विविच्यते ।। जीवतो म्रियमाणस्य गच्छतः सफलस्य च । । अतो ब्रह्मविदा कार्यमेवमेव, न चान्यथा ॥ तामसी बुद्धिमाश्रित्य ये मूढाः सर्व विप्लवम् । वदन्ति शास्त्र नाशाय सद्भिः शोच्याश्चमेऽनु तान् ।। ब्रह्मविद् गमनाभावः शताशेनापि चेद् भवेत् । शास्त्रमेतद् वृथा जातं सर्वसूत्र विनाशतः ।। स्वाप्स्य च संपत्तेरत्र ब्रह्मगतिश्रु ती। अन्यथा न, श्रुतेरर्थः स्याच्चेद् व्यासोवदेन किम् ॥ तामसी बुद्धिमाश्रित्य या मुक्तिः कैश्चिदुच्यते । सा सुषुप्ति श्रु तेरर्थो मोहादेवान्यथा मतिः॥ अतो ब्रह्मविदः कार्य जीवतः पूर्वमुच्यते । आवृत्तिः श्रवणादीनां नवकृत्योपदेशतः ॥ दर्शनार्थत्वतो लिंगादपि ब्रीह्मवधातवत् । आवृत्ती श्रवणादीनामात्मेति स्याद् दृढा मतिः ॥ आपाततो दर्शनं तदभेदेनापि बोध्यते । प्रतीकोपासनादीनां नैवंभावो हि जायते ॥ आलम्बनार्थं तत्रापि ब्रह्मदृष्टिविशिष्यते । आदित्यादिब्रह्मदृष्टेरंगत्वं न स्वतंत्रता ।। मनने च निदिध्यासे विशेषश्चोच्यतेऽधुना। आसनादिशडंगैस्तु चित्तं श्रौतार्थ एव हि ॥ धारयेदामतेरेवं ततः सिद्धिमवाप्स्यति । । धर्माधर्मभयं तस्य नास्त्येवेति विनिश्चयः ॥ अग्निहोत्रादिकं कार्य संन्यासः फल एव हि । षोढाचेत् पुरुषोव्यक्तः प्रारब्धान्तेफलं भवेत् ॥