________________
.
शिवसूत्रवातिकम् । [. अनुमृत्यैव सद्वृत्तिमञ्जमा क्रियते मया ॥ ५ ॥ वार्तिकं शिवसूत्राणां वाक्यैरेव तदीरितैः ।
तत्र नरेशनकात्म्यवादिनां प्रातिकूल्यतः ॥ ६ ॥ चिक्रियात्मकचैतन्यमूर्ति वजडात्मनः । परमः शिव एवात्मा प्रपञ्चस्येति कथ्यते ।। ७ ।।
चैतन्यमात्मा ॥१॥
चैतन्यं चित्क्रियारूपं शिवस्य परमस्य यत् । स्वातन्त्र्यमेतदेवात्मा ततोऽसौ परमः शिवः ॥ ८ ॥ अथवा कोऽयमात्मेति प्रष्टन बोधयितुं शिशून् । नात्मा देहो नच प्राणो न मनः खं न शून्यभूः ॥ ६ ॥ किन्तु चैतन्यमेवात्मेत्यादिष्टं परमेष्ठिना । अथ चैतन्यमेवैतदात्मा खाभाविकं वपुः ॥ १० ॥ विशेषाचोदनादस्य जगतश्चेत्यरूपिणः । अचेत्यमानं कस्यापि वपुः किमपि नो भवेत् ॥ ११ ॥ चेत्यमानं तु चिद्रूपतादात्म्याचिन्मयं भवेत् । एवं शिवोक्नया नीत्या जङ्गमस्थावरात्मनः ॥ १२ ॥ चैतन्यमेव विश्वस स्वरूपं पारमार्थिकम् । ॥ १ ॥
नन्वेवंविधविश्वस्य चैतन्यं चेद्वपुस्तदा ।। १३ ॥ कथं बन्धस्य संबन्ध इति शङ्कां व्यपोहितुम् । प्रश्लेषाश्लेषपाठाभ्यां सूत्रमाह महेश्वरः ॥ १४ ॥