________________
डॉ नमः परप्रकाशवपुषे शिवाय।
अथ
श्रीशिवसूत्राणि ।
-=-०००-:-- कृष्णदासापरपर्यायवरदराजविरचितवार्तिकोपेतानि ।
-=0-*:--- प्रथम उन्मेषः
नागबोध्यादिभिः सिद्धैर्नास्तिकानां पुरःसरैः । आक्रान्ते जीवलोकेऽसिन्नात्मेश्वरनिरासकैः ॥ १ ॥ रहस्यसम्प्रदायोऽयं मा विच्छेदीत्यतुच्छया । खेच्छया शिवसूत्राणि समालिख्य शिलातले ॥ २ ॥ महादेवगिरौ स्वग्ने माहेश्वरशिखामणेः ।। उपदिश्य प्रभुः श्रीमानुमया संप्रयोजितः ॥ ३ ॥ दयया स्वयमेवासीदेशिको यस्य शङ्करः । दैशिकं दैशिकानां तं वसुगुप्तं प्रभुं नुमः ॥ ४ ॥ महामाहेश्वरश्रीमत्क्षेमराजमुखोद्गताम् ।