________________
श्रीहरिभद्रसूरिविरचितः षड्दर्शनसमुच्चयः मणिभद्रकृतया टीकया समलङ्कृतः
सज्ज्ञानदर्पणतले विमलेऽत्र यस्य
ये केचिदर्थनिवहाः प्रकटीवभूवुः । तेऽद्यापि भान्ति कलिकालजदोषभस्म
प्रोद्दीपिता इव शिवाय स मेऽस्तु वीरः ॥१॥ जैनं यदेकमपि बोधविधायिवाक्य
मेवं श्रुतिः फलवती भुवि येन चक्रे । चारित्रमाप्य वचनेन महत्तरायाः
श्रीमान्स नन्दतु चिरं हरिभद्रमुरिः ॥२॥ सन्निधेहि तथा वाणि ! षड्दर्शनाङ्कषड्भुजे । यथा षड्दर्शनव्यक्तिस्पष्टने प्रभवाम्यहम् ॥ ३॥ व्यासं विहाय संक्षेपसचिसत्वानुकम्पया।
टीका विधीयते स्पष्टा पडदर्शनसमुच्चये ॥४॥ इह हि श्रीजिनशासनप्रभावनाविभावकप्रभोदयभूरियशश्चतुर्दशशतप्रकरणकरणोपकृतजिनधर्मो भगवान् श्रीहरिभद्रमूरिः षड्दर्शनप्रमाणपरिभाषास्वरूपजिज्ञासुशिष्यहितहेतवे प्रकरणमारिप्समानो निर्विघ्नशास्त्रपरिसमाप्त्यर्थं स्वपरश्रेयोऽर्थं च समुचितेष्टदेवतानमस्कारपूर्वकमभिधेयमाह
सद्दर्शनं जिनं नत्वा वीरं स्याद्वाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥
अर्थों निगद्यतेऽभिधीयत इति सम्बन्धः, अर्थशब्दोऽत्राभिधेयवाचको ग्राह्यः।