________________
लौकायतिकमतम् । तथा हि-स्पर्शनेन्द्रियेण तावन्मृदुकठोरशीतोष्णस्निग्धरूक्षादिभावा उपलभ्यन्ते । रसनेन्द्रियेण कटुकषायाम्लमधुरास्वादलेह्यचूष्यपेयादयो वेद्यन्ते।
घ्राणेन्द्रियेण मृगमदमलयजघनसारागुरुप्रभृतिसुरभिवस्तुपरिमलोद्गारपरम्पराः परिचीयन्ते ।
चक्षुरिन्द्रियेण भूभूधरपुरप्राकारघटपटस्तम्भाम्भोरुहादिमनुष्यपशुश्वापदादिस्थावरजङ्गमपदार्थसार्था अनुभूयन्ते ।
श्रोत्रेन्द्रियेण प्रथिष्ठगाथकपथिकप्रथ्यमानतालमानमूर्च्छनाप्रेतोलनाखेलन्मधुरध्वनय आकर्ण्यन्ते ।
इति पञ्चप्रकारप्रत्यक्षदृष्टमेव वस्तुतत्त्वं प्रमाणपदवीमवगाहते, शेषप्रमाणानामनुभवाभावादेव निरस्तत्वाद् गगनकुसुमवत् ।
ये चास्पृष्टमनास्वादितमनाघ्रातमदृष्टमश्रुतमप्याद्रियमाणाः स्वर्गमोक्षादिसुखपिपासाऽजुबन्धचेतोवृत्तयो दुश्चरतरतपश्चरणादिकष्टपिष्टिकया स्वजन्म क्षपयन्ति तन्महासाहसं तेषामिति ।
कि च-प्रत्यक्षमप्यस्तितयाऽभ्युपगम्यते चेज गदनपद्भुतमेव स्याद् , दरिद्रो हि स्वर्णराशिर्मेऽस्तीत्यनुध्याय हेलयैव दौःस्थ्यं दलयेद् , दासोऽपि स्वचेतसि स्वामितामवलम्ब्य किङ्करतां निराकुर्यादिति, न कोऽपि स्वानभिमतमालिन्यमश्नुवीत ।
एवं न कश्चित्सेव्यसेवकभावो दरिद्रधनिभावो वा स्यात् , तथा च जगद्यवस्थाविलोपप्रसङ्ग इति सुस्थितमिन्द्रियगोचर एव प्रमाणम् ।
ये चानुमानागमादिप्रामाण्यमनुमन्वानाः पुण्यपापव्यापारप्राप्यस्वर्गनरकादिसुखासुखं व्यवस्थापयन्तो वाचाटा न विरमन्ति तान् प्रति दृष्टान्तमाह
भद्रे वृकपदं पश्येति । यथा हि कश्चित्पुरुषो वृकपददर्शनसमुद्भूतकुतूहलां दयितां मन्थरतरप्रसृमरसमीरणसमीकृतपांशुप्रकारस्वाङ्गुलिन्यासेन दृकपदाकारतां विधाय प्राह-हे भद्रे ! वृकपदं पश्य, कोऽर्थः ? यथा तस्या अविदितपरमार्थाया मुग्धाया विदग्धो वल्लभो
६ष०९०