________________
सटीके षड्दर्शनसमुच्चये दर्शनानां षट्सङ्ख्या जगति प्रसिद्धा कथं फलतीत्याह
षष्ठदर्शनसङ्ख्या तु पूर्यते तन्मते किल । लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ॥ ७९ ॥
ये नैयायिकवैशेषिकयोरेकरूपत्वेनाभेदं मन्यमाना दर्शनपञ्चकमेवाचक्षते, तन्मते षष्ठदर्शनसङ्ख्या लोकायतमतक्षेपात्पूर्यते, तु पुनरर्थे, किलेति परमाप्ताम्नाये, तेन कारणेन तन्मतं चार्वाकमतं कथ्यते तत्स्वरूपमुच्यत इति ॥ ७९ ॥ तदेवाह
लोकायता वदन्त्येवं नास्ति देवो न नितिः। धर्माधर्मों न विद्यते न फलं पुण्यपापयोः ॥८॥
लोकायता नास्तिकाः, एवममुना प्रकारेण वदन्ति कथमित्याह-सर्वज्ञादिर्नास्ति, नितिर्मोक्षो नास्ति, अन्यच्च न विद्यते, कौ ? धर्माधर्मों, धर्मचाधर्मश्चेति द्वन्द्वः, पुण्यपापे न स्त इत्यर्थः, पुण्यपापयोधर्माधर्मयोः फलं स्वर्गनरकादिरूपं नेति नास्ति, तदपि पुण्यपापयोरभावे कौतस्त्यं तत्फलमित्यादि।
तच्छास्त्रोक्तमेव सोल्लुण्ठं दर्शयन्नाह-तथा च तन्मतं-तथा चेत्युपदर्शने, तन्मतं, प्रस्तावान्नास्तिकमतम् ॥ ८०॥ कथमित्याहएतावानेव लोकोऽयं यावानिन्द्रियगोचरः। भद्रे ! बृकपदं पश्य यद्वदन्ति बहुश्रुताः ॥ ८१॥
अयं लोकः संसार एतावानेव एतावन्मात्र एव यावान् यावन्मात्रमिन्द्रियगोचरः; इन्द्रियं स्पर्श नरसनघ्राणचक्षुःश्रोत्रभेदात्पञ्चविधं तस्य गोचरो विषयः, पञ्चेन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नापरं किंचन, अत्र लोकग्रहणाल्लोकस्थपदार्थसार्थस्य सङ्ग्रहः ।
तथा परे पुण्यपापसाध्यं स्वर्गनरकाद्याहुः, तदप्रमाणं प्रत्यक्षाभावादेव, अप्रत्यक्षमप्यस्तीति चेच्छशशृङ्गवन्ध्यास्तनन्धयादोनामपि भावोऽस्तु।