________________
श्रीश्रीगौरकृष्णः शरणम् ।
भूमिका। अंहः संहरदखिलं सकृदुदयादेव सकललोकस्य ।
तरणिरिव तिमिरजलधिं जयति जगन्मङ्गलं हरेर्नाम ॥ अयि षड्दर्शनीवल्लभाः!
लभतां ननु भवतामासेचनकतां चिररात्राय चिन्वानायास्तन्वानायाश्च हृद्यायाः किल वोऽस्याः षड्दर्शन्याः समुढेलोत्कण्ठोदधेरुद्ग्रीविकासहस्रप्रदानं श्रीमतामात्मदर्शनाय सौखप्रकटनिकता भवत्सु पदम् ।।
न हि खलु सर्वदर्शनसंग्रहादिजातीय निबन्धैः समं पास्पर्द्धदयं निबन्धो नामाकर्णनमात्रजनुर्धमैर्भवादशैर्हेलालवमपि जामितासध्रीचीनं नेयस्तत्त्वनिभालनमार्मिकतास्वयंवृतैः, नयनाञ्चलार्पणायासमात्रेण चेदमीयरहस्यमनुबोभुवतो भवन्तो भविष्यन्ति, कृतमर्थवादविडम्बनेन । ___ अयञ्च निवन्धः सप्ताशीत्या पद्यैर्निर्मितो ग्रन्थका षड्दर्शनसमुच्चयनाम्ना प्रसेधितः, दर्शनपदार्थश्चैतादृशस्थले दृश्यते ज्ञायत आत्माऽनेनेति ज्ञानसामान्यार्थकात् पश्यतेः करणल्युटा निष्पन्नदर्शनपदजन्यज्ञानविषयः चेतनवस्तुविचारप्रवणागमात्मकः, दर्शनगतषसंख्याविधायां तु तैथिकानां भूयांसि मतानि
केचित् खलु पूर्वोत्तरमीमांसाद्वयं निरीश्वरसेश्वरसांख्यद्वयं षोडशसप्तपदार्थाख्यायिन्यायद्वयं चेति मिलितानि दर्शनषटकं प्राहुः।
अन्ये पुनः सौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकप्रभेदबौद्धेन जैनलौकायतिकाभ्याञ्च पूर्वदर्शनषट्कं द्वादशदर्शनी प्रतिजानते ।
परे तु मीमांसकसांख्यनैयायिकबौद्धजैनचार्वाकाणां दर्शनानि षड्दर्शनी संगिरन्ते । प्रकृतनिबन्धकारस्तु
बौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा। जैमिनीयञ्च नामानि दर्शनानाममून्यहो ॥
इति तृतीयकारिकायां प्रकारान्तरमेवान्वसरद् । अपराणि चापि दर्शनान्येकेऽमन्यन्त, यानि सर्वदर्शनसंग्रहसर्वदर्शनशिरोमण्यादिनिबन्धेषु व्यक्तानि; परन्तु न ज्ञायते दर्शनविभागस्य स्वेच्छयैवेशानेस्तद्विभागकतमहा. भागैः केनागसाऽसौ तपस्विनी दर्शनसंख्यैतागपव्यवस्थाविपदमनायीति, कथं वा दोषैकटरभ्यो रोचतेऽप्ययमवधीरितनिजस्वरूपोऽपरिगणयद्भयो 'रसो वैस' इत्यादिप्रमाणमूर्धन्यनेकविधोपपत्तिप्रसाधितरसस्वरूपात्मप्रतिपादनपरभारतीयदर्शनम् , यतःस्वसमभिव्याहृतपदार्थताऽवच्छेदकव्याप्यपरस्परासमानाधिकरणयावद्धर्मप्रकारकज्ञानानुकूलव्यापारात्मकं हि विभागं तज्ज्ञाः समभिप्रयन्ति ।।
न चेत्थंभूततेभिरक्तचरेष्वेकमपि विभागमाश्रयते, प्रकृतनिबन्धा त्वशेषदर्शनसम्राज वेदान्तमवहेलयन् 'दीपाधस्तिमिर' न्यायमेव स्मालम्बते, आस्तां वैषा दुर्व्यवस्था, कृतमनेनानुपक्रान्तविमर्शन, किन्तु तिष्ठत्येवायं निबन्ध आपाततः पञ्चषदर्शनीयस्थवीयोsनेकविषयनिरूपणेन प्रविविक्षुजनानां कतिपयपदार्थावबोधसंपदं वितरीतुं बद्धपरिकर इति नात्र विशयलेशोऽपि।।
अस्य च षड्दर्शनसमुच्चयस्य निर्माता परमाहतो हरिभद्रसूरिः।
अयं हि हरिभद्रसूरिजर्जात्या ब्राह्मणः, चित्रकूटादिनिकटवत्तिचित्तौडाख्यनगरराज्या. सनारूढस्य जितारिनामकभूपस्य पुरोहितः प्रौढाभिरूपः कदाचित् चनोपजैनोपानपं
चक्कीदुर्ग हरिपणागं चक्कणकेसवो चक्की ।