________________
सटीके षड्दर्शनसमुच्चये
यथोक्तं- श्रीगन्धिहस्तिमहातर्फे । 'द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्ये' ति तस्य दृढमानतस्य सम्यक्त्वयोगेन चारित्रयोग्यता चारित्रार्हता सम्यक्त्वज्ञानयोगेनेति, सम्यक्त्वं च ज्ञानं च सम्यक्त्वज्ञाने तयोर्योगस्तेन ज्ञानदर्शनविनाकृतस्य हि चारित्रस्य सम्यक्चास्त्रिस्य व्यवच्छेदार्थ सम्यक्त्वज्ञानग्रहणमिति ॥ ५३ ॥
४८
फलमाह
तथा भव्यत्वपाकेन यस्यैतत् त्रितयं भवेत् । सम्यग्ज्ञान क्रियायोगाज्जायते मोक्ष भाजनम् ॥ ५४ ॥ तथेत्युपदर्शने, भव्यत्वपाकेन परिपक्व भव्यत्वेन तद्भव एवावश्यं मोक्षे गन्तव्यमिति भव्यत्वस्य परिपाकेन यस्य पुंस एतत् त्रितयं दर्शनज्ञानचारित्ररूपं भवेत्, यत्तदोर्नित्याभिसम्बन्धात् सोऽनुक्तोsपि सम्बध्यत इति स पुमान्मोक्षभाजनं जायते निर्वाणश्रियं भुङ्क इत्यर्थः, कस्मात् सम्यग्ज्ञानक्रियायोगात् सम्यगिति । सम्यक्त्वं दर्शने, ज्ञानमागमावबोधः, क्रिया च चरणकरणात्मिकास्तासां योगः सम्बन्धस्तस्माद्, न च केवलं दर्शनं ज्ञानं चारित्रं वा मोक्षकारणम् ।
यदाहुर्भद्रवाहुस्वामिपादाः
सुबहु पि सुमहीयं किं काही चरणविप्पमुक्कस्स | अन्धस्स जह पलित्ता दीवस सहस्सकोडी वि ॥
तथा
नाणं चरितही लिंगग्ग हणं च दंसणविहीणं । संजमहीणं च तवं जो चरs निरत्थयं तस्स ||
दर्शनज्ञानचारित्राणि हि समुदितान्येव मोक्षकारणानि यदुवाच, वाचकमुख्य: - ' दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति ॥ ५४ ॥
१. सुबह्वपि श्रुतमधीतं किं करिष्यति चरणविप्रयुक्तस्य । अन्धस्य यथा प्रदीपा दीपशतसहस्रकोटिरपि ॥ ज्ञानं चरित्रहीनं लिङ्गग्रहणं च दर्शनविहीनम् । संयमहीनं च तपः यश्चरति निरर्थकं तस्य ॥