________________
सटीके षड्दर्शनसमुच्चये निदर्शनेन तमेवार्थ द्रढयन्नाह
रोलम्बगबलव्यालतमामलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥२०॥
यथेति दृष्टान्तकथनारम्भे, रोलम्बाः = भ्रमराः, गवलं माहिपंशृङ्गम् , व्याला गजाः सपो वा तमालाः = वृक्षविशेषाः, सर्वेऽध्यमी कृष्णाः पदार्थाः स्वभावतो ज्ञेयाः, द्वन्द्वसमासो बहुव्रीहिश्च, एवंप्रायाः = एवंविधाः पयोमुचो मेधा वृष्टिं न व्यभिवरन्तीति, एवंप्राया इत्युपलक्षणेन परेऽपि दृष्टिहेतवोऽभ्युनत्यादिविशेषा ज्ञेयाः । यदुक्तम्
'गम्भीरगर्जितारम्भनिर्मिन्नगिरिगहराः ।
तुङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः' इत्यादयोऽपि वृष्टिं न व्यभिचरन्ति ॥ २० ॥ शेषवन्नामधेयं द्वितीयमनुमानभेदमाहकार्याकारणानुमानं यच्च तच्छेषयन्मतम् । तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ॥ २१ ॥
यत्कार्यात्फलात्कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेपवदनुमानं मतं कथितं नैयायिकशासने, यथा तथाविधनदीपूराद्परि मेघो वृष्टस्तथाविधप्रवहत्सलिलसम्भारभरितो यो नदीपूरः सरित्प्रवाहस्तस्मादुपरि शिखरिशिखरोपरि जलधराभिवर्पणज्ञानं तच्छेपवत्, अत्र कार्य नदीपूरः कारणं च पर्वतोपरि मेघो वृष्ट इति । उक्तं च नैयायिकैः
'आवर्तवर्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुटफेनच्छटाऽङ्कितः ॥ वहरहुलशेवालफलशाद्धलसंकुलः।
नदीपूरविशेषोऽपि शक्यते न निवेदितुम् ॥ इति ॥२१॥ तृतीयानुमानमाह
यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ २२॥