________________
बौद्धमतम् । तयोः सन्निकत्सिंयोगात्पन्नं जातम् , इन्द्रियं हि नेकच्यात्पदार्थे संयुज्यने, इन्द्रियार्थसंयोगान् ज्ञानमुत्पद्यते । यदुक्तम्
'आत्मा सहेति मनसा, मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रम् । योगोऽयमेव मनसः किमगम्यमस्ति
यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥ तत्राव्यभिचारिकं ज्ञानान्तरेण नान्यथाभावि, शुक्तिशकले कलधौतबोधो हीन्द्रियार्थसन्निकर्पोत्पन्नोऽपि व्यभिचारी दृष्टोऽतोऽव्यभिचारिकं ग्राह्यम् , तथा व्यवसायात्मकं व्यवहारसाधकम् , सजलधरणितले हि बहलशाहलवृक्षावल्यामिन्द्रियार्थसान्निध्योद्तमपि जलज्ञानं तत्प्रदेशसंगमेऽपि स्नानपानादिव्यवहारासायकत्वादप्रमाणम् , अतः सफलं व्यवसायात्मकमिति विशेषणम् ।
तथा व्यपदेशविवर्जितमिति । व्यपदेशो विपर्ययस्तेन रहितं, तथा ह्याजन्मकाचकामलादिदोषदूषितचक्षुषः पुरुषस्य धवलशङ्ख पीतज्ञानमुदेति तद्यद्यपि सकलकालं तन्नेत्रदोषाविरामादिन्द्रियार्थसन्निकर्पोत्पन्नमस्ति तथाऽप्यन्यवस्तुनोऽन्यथाबोधान्न तद्यथोक्तलक्षणं प्रत्यक्षमिति प्रत्यक्षसाधकं विशेषणचतुष्टयमुक्तम् , साम्प्रतमनुमानमाहइतरदन्यन्मानमनुमानमुपदिशति तदनुमानं पूर्व प्रथमं त्रिविधं त्रिनकारकं भवेजायेत, पूर्वमितिपदेनानुमानान्तरभेदानन्त्यमाह-तत्पूर्व प्रत्यक्षपूर्वं चेति श्लोकद्वयार्थः ॥ १७-१८ ॥ अनुमानत्रैविध्यमाह
पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा । तत्रायं कारणात्कार्यमनुमानमिह गीयते ॥ १९ ॥
पूर्ववत्, शेषवत् , सामान्यतो दृष्टं, चेत्यनुमानत्रयम्, चः समुच्चये, एवेति पूरणार्थे, तथेति उपदर्शने, तत्र त्रिषु मध्ये, आद्यमनुमानमिह शास्त्रे कारणात्कार्यमनुमानमुदितं कारणान्मघात्कार्य वृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यनामानुमानं कथितमित्यर्थः ॥