________________
सटीके पड्दर्शनसमुच्चये अथ तन्यानि व्याख्याथ तत्संलग्नान्येवायतनान्याह
पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायनसेतानि द्वादशायतनानि च ॥ ८॥
पञ्चसंख्यानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि, शब्दाद्या विषयाः पञ्च शब्दरूपरसस्पर्शगन्धरूपाः पञ्च विषया इन्द्रियव्यापारा इत्यर्थः, मानसं चित्तं, धर्मायतनमिति धर्मप्रधानमायतनं चैत्यस्थानमिति, एतानि द्वादशसंख्यानि ज्ञातव्यानि न केवलमतानि द्वादशायतनानि जातिजरामरणभवोपादानतृष्णावेदनास्पर्शनामरूपविज्ञानसंस्कारा अविद्यारूपाणि द्वादश्नायतनानि, चः समुच्चये, अमी सर्वेऽपि संस्काराः क्षणिकाः, शेषं तदेवेति ॥ ८॥ तत्वानि व्याख्यायाधुना प्रमाणमाह
प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने । प्रत्यक्षमनुमानं सम्यग्ज्ञानं द्विधा यतः ॥९॥
तथेति प्रस्तुतानुसन्धाने, सौगतदर्शने बौद्धमते, द्वे प्रमाणे विज्ञेये, चशब्दः पुनरर्थे, तदेवाह-प्रत्यक्षमनुमानं च, अक्षमक्षं प्रति गतं प्रत्यक्षमैन्द्रियिकमित्यर्थः, अनुमीयत इत्यनुमानं लैङ्गिकमित्यर्थः, यतः सम्यग् ज्ञानं निश्चितावबोधो द्विधा द्विप्रकारः, सम्यग्रहणं मिथ्याज्ञाननिराकरणार्थम् , प्रत्यक्षानुमानाभ्यामेवेत्यर्थः ॥ ९ ॥
पृथक्पृथग्दर्शनापेक्षलक्षणसाङ्कर्यभीरु कीदृक् प्रत्यक्षमत्र ग्राह्यमित्याशङ्कायामाह
प्रत्यक्षं कल्पनाऽपोढमभ्रान्तं तत्र वुध्यताम् । त्रिरूपाल्लिङ्गतो लिभिज्ञानं त्वनुमानसंज्ञितम् ॥ १०॥
तत्र प्रमाणोभय्यां प्रत्यक्षं बुद्ध्यतां ज्ञायतां शिष्येणेति, किभृतं ? कल्पनापोडं, शब्दसंसर्गवती प्रतीतिः कल्पना; तयाऽपोर्ट रहितं निर्विकल्पकमित्यर्थः, अन्यच्चाभ्रान्तं भ्रान्तिरहितं रगरगायमाणपरमाणुलक्षणं स्वलक्षणं हि प्रत्यक्षं निर्विकल्पकमभ्रान्तश्च तद्, घटपटादिवाह्यस्थूलपदार्थप्रतिबद्धं च ज्ञानं सविकल्पकम् , तच्च बाह्यस्थू१. पडायतनेति पदमधिकं क्वचित्पुस्तके।